Book Title: Anagar Dharmamrutam
Author(s): Ashadhar, Bansidhar Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
नवमोऽध्यायः।
६८५
Amar
स भव्यः प्रक्षीणकर्मा प्रकर्षेण विश्लिष्टज्ञानावरणादिकर्माष्टको व्रजति गच्छति । किं तत् ? जन्मपारं संसारान्तम् । कैः ? जन्मभिर्भवैः । किंविशिष्टैः ? कतिपयैत्रैिः सप्ताष्टैा । उक्तं च
आराहिऊण केई चउविहाराहणाए जं सारं, उव्वरियसेसपुण्णा सव्वत्थणिवासिणो हुँति ॥ जेसिं होज जहण्णा चउब्विहाराहणा हु खवयाणं ।
सत्तट्ठभवे गंतु तेविय पावंति णिव्वाणं ॥ कथंभूतो भूत्वा ? साधुयोगोज्झिताङ्गः सम्यक्समाधित्यक्तशरीरः । पुनः कथंभूतो भूत्वा ? श्रेयःपक्त्रिमापत्रिदशनरसुखः। अग्राणां प्रधानभूतानां त्रिदशानां देवानां नराणां च मनुष्याणां सुखानि अग्रत्रिदशनरसुखानि । श्रेयःपवित्रमाणि पुण्यपाकेन निर्वृत्तानि अग्रत्रिदशनरसुखानि यस्य स एवम् । यः किम् ? यो युङ्क्ते प्रयोजयति । कोसौ ? यतिरनगारः । अथ अथवा परम उत्कृष्टः श्रावकः। अथ अथवाऽन्यः श्रावको मध्यमो जघन्यो वा शक्त्या युङ्क्ते । काः ? क्रियाः। किंविशिष्टाः ? नित्या नैमित्तिकीश्च । पुनः किंविशिष्टाः ? अवितथकृतिकाङ्गबाह्यश्रुतोक्ताः सत्यकृतिकर्माख्ये अङ्गबाह्ये श्रुते शास्त्रे उक्ताः प्रतिपादिताः । कथम् ? इति एवंप्रकाराः । अङ्गबाह्यं च तच्छ्रुतं चाङ्गबाह्यश्रुतं कृतिकर्माख्यं च तदङ्गबाह्यश्रुतं च कृतिकर्माङ्गबाह्यश्रुतम् । अवितथं च तत् कृतिकर्माङ्गबाह्यश्रुतं च तत्रोक्ताः ॥
उक्तलक्षणस्य यतिधर्मस्य जिनागमोद्धतत्वेनाविसंवादित्वाच्छ्रद्धानगोचरीकृतस्य शश्वदनुष्ठानेऽभ्युदयनिःश्रेयफलसंपादकत्वमाहइदं सुरुचयो जिनप्रवचनाम्बुधेरुद्धृतं, सदा य उपयुञ्जते श्रमणधर्मसारामृतम् । शिवास्पदमुपासितक्रमयमाः शिवाशाधरैः, समाधिविधुतांहसः कतिपयैभवैयान्ति ते ॥ १००॥ ते भव्यात्मानः शिवास्पदं निर्वाणपदं यान्ति गच्छन्ति । कैः ?
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org
Loading... Page Navigation 1 ... 688 689 690 691 692 693 694 695 696 697 698