Book Title: Anagar Dharmamrutam
Author(s): Ashadhar, Bansidhar Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
६८६
अनगारधर्मामृते
भवैः । किंविशिष्टैः ? कतिपयैर्द्वित्रैः सप्लाष्टैा । किंविशिष्टाः सन्तः ? समाधिविधुतांहसः समाधिना धय॑शुक्ललक्षणेन विधुतं विश्लेषितमंहः शुभाशुभरूपं कर्म यैस्ते तथोक्ताः । पुनः किंविशिष्टाः ? उपासितक्रमयमा आराधितचरणयुगलाः । अथवोपासितः सेवितः क्रम आनुपूर्वी यमश्च संयमो येषां ते एवम् । कैः ? शिवाशाधरैः शिवस्य मोक्षस्याशामाकाङ्क्षां बिभ्राणैः श्रमणगणैरिन्द्रादिभिश्च । ये किम् ? ये सुरुचयो निर्मलसम्यक्वाः सदा सर्वदा इदमुक्तलक्षणं श्रमणधर्मसारामृतं यतिधर्मान्तस्तस्वपीयूषमुपयुञ्जते सेवन्ते । किं विशिष्टम् ? उद्धृतं भेदेन प्रतिपादितम् । कस्मात् ! जिनप्रवचनाम्बुधेर्जिनागमसमुद्रात् ॥ इति भन्दम् । (ग्रन्थसंख्या १०७५)
यो धर्मामृतमुद्दधार सुमनस्तृप्त्यै जिनेन्द्रागम, क्षीरोदं शिवधीनिमथ्य जयतात्स श्रीमदाशाधरः। भव्यात्मा हरदेव इत्यभिधया ख्यातश्च नन्द्यादिम, टीकाशुक्तिमचीकरत्सुखमिमां तस्योपयोगाय यः॥
इत्याशाधरविरचितायां स्वोपज्ञधर्मामृतानगारधर्मटीकायां भव्यकुमुदचन्द्रिकासंज्ञायां नित्यनैमित्तिकक्रियाभिधा
नीयो नाम नवमोऽध्यायः ॥ ९॥
इत्याशाधरदब्धा स्वोपज्ञधर्मामृतानगारधर्मटीका भव्यकुमुदचंद्रिका'पराभिधाना समाप्ता । स्वस्ति स्यात्कारककेतनाय श्रीमदनेकान्तशासनाय ॥
MEAN
VARMKS
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 689 690 691 692 693 694 695 696 697 698