Book Title: Anagar Dharmamrutam
Author(s): Ashadhar, Bansidhar Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 689
________________ ६८४ अनगारधर्मामृते कस्मै ? नैस्सङ्ग्यायाचनाहिंसादुःखाभ्यासाय नैर्ग्रन्थ्याप्रार्थनाऽजीव. चधदुःखभावनार्थम् । किंवत् ? नाम्यवनग्नत्वं यथा । उक्तं च काकण्या अपि संग्रहो न विहितः क्षौरं यया कार्यते, चित्तक्षेपकृदस्त्रमात्रमपि वा तत्सिद्धये नाश्रितम् । हिंसाहेतुरहो जटाद्यपि तथा यूकाभिरप्रार्थने, वैराग्यादिविवर्धनाय यतिभिः केशेषु लोचः कृतः॥ अस्नानसमर्थनार्थमाहन ब्रह्मचारिणामर्थो विशेषादात्मदर्शिनाम् । जलशुद्ध्याथवा यावद्दोष सापि मताहेतैः ॥९८॥ नार्थः न प्रयोजनं स्यात् । कया ? जलशुद्ध्या स्नानेन । केषाम् ? ब्रह्मचारिणां विशेषादतिशयेनात्मदर्शिनामात्मस्वरूपदर्शनशीलानाम् । अथवा सापि जलशुद्धिरपि मता । कैः ? आर्हतैजैनैः । कथम् ? यावा दोषम् । उक्तं च श्रीसोमदेवपण्डितैः ब्रह्मचर्योपपन्नानामध्यात्माचारचेतसाम् । मुनीनां स्नानमप्राप्तं दोषे त्वस्य विधिर्मतः॥ सङ्गे कापालिकात्रेयीचण्डालशबरादिभिः। आप्लुत्य दण्डवत्स्नायाजपेन्मन्त्रानुपोषितः ॥ एकान्तरं त्रिरात्रं वा कृत्त्वा स्नात्वा चतुर्थके । दिने शुद्ध्यन्त्यसंदेहमृतौ व्रतगताः स्त्रियः॥ अपि चरागद्वेषमदोन्मत्ताः स्त्रीणां ये वशवर्तिनः। न ते कालेन शुद्धयन्ति स्मातास्तीर्थशतैरपि ॥ उक्तक्रियाणां यथावदनुष्ठाने फलमाहनित्या नैमित्तिकीश्चेत्यवितथकृतिकर्माङ्गबाह्यश्रुतोक्ता;भक्त्या युङ्क्ते क्रिया यो यतिरथ परमः श्रावकोन्योथ शक्त्या। स श्रेयःपक्त्रिमाग्रत्रिदशनरसुखः साधुयोगोज्झिताङ्गो, भव्यः प्रक्षीणकर्मा व्रजति कतिपयैर्जन्मभिर्जन्मपारम् ॥ ९९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 687 688 689 690 691 692 693 694 695 696 697 698