Book Title: Anagar Dharmamrutam
Author(s): Ashadhar, Bansidhar Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 687
________________ ६८२ अनगारधर्मामृते किमर्थं स्थितिभोजनमनुष्ठीयते इत्याहयावत्करौ पुटीकृत्य भोक्तुमुद्भः क्षमेऽझ्यहम् । तावन्नैवान्यथेत्यागूसंयमार्थ स्थिताशनम् ॥ ९३ ॥ यावत्क्षमे शक्नोम्यहम् । किं कर्तुम् ? भोक्तुं भोजनं कर्तुम् । किंविशिष्टः सन् ? उद्भः। किं कृत्वा ? पुटीकृत्य भाजनीकृत्य संयोज्य वा । कौ ? करौ हस्तौ । तावदद्मि भुओहम् । नैवाझ्यहम् । कथम् ? अन्यथा न्येन प्रकारेण । इत्यागूसंयमार्थमेवंविधप्रतिज्ञार्थमिन्द्रियप्राणसंयमार्थ च स्यात् । किं तत् ? स्थिताशनं स्थितिभोजनं मुनेः । उक्तं चाचार. टीकायाम् "यावद्धस्तपादौ मम संवहतस्तावदाहारग्रहणं योग्यं नान्यथेति ज्ञापनार्थ स्थितस्य हस्ताभ्यां भोजनम्, उपविष्टः सन् भाजनेनान्यहस्तेन वा न भुजे. हमिति प्रतिज्ञार्थं च । अन्यञ्च स्वकरतलं शुद्धं भवति । अन्तराये सति बहोविसर्जनं च न भवति । अन्यथा पात्री सर्वाहारपूर्णां त्यजेत् । तत्र च दोषः स्यात् । इन्द्रियसंयमप्राणिसंयमप्रतिपालनार्थं च स्थितस्य भोजनमुक्तमिति"। एतदेव चान्यैरप्यन्वाख्यायि यावन्मे स्थितिभोजनेस्ति दृढतां पाण्योश्च संयोजने, भुजे तावदहं रहाम्यथ विधावेषा प्रतिज्ञा यते। कायेप्यस्पृहचेतसोन्त्यविधिषु प्रोल्लासिनः सन्मते न ह्येतेन दिवि स्थितिर्न नरके संपद्यते तद्विना ॥ स्थितिभोजनविधिविशेषमाहप्रक्षाल्य करौ मौनेनान्यत्रार्थाद् ब्रजेद्यदैवाद्यात् । चतुरङ्गुलान्तरसमक्रमः सहाजलिपुटस्तदैव भवेत् ॥ ९४ ॥ - ब्रजेद् गच्छेदनगारः । क ? अन्यत्र स्थानान्तरे । केन ? मौनेन । कस्मात् ? अर्थात् कीटिकाविसर्पणादिनिमित्तमाश्रित्य । किं कृत्वा प्रक्षाल्य धौत्वा । कौ ? करौ हस्तौ । तथा यदैव यस्मिन्नेव काले अद्यात् भुंजीत् यतिस्तदैव तस्मिन्नेव काले भवेत् । किंविशिष्टः ? चतुरङ्गलान्तरसमा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 685 686 687 688 689 690 691 692 693 694 695 696 697 698