Book Title: Anagar Dharmamrutam
Author(s): Ashadhar, Bansidhar Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 686
________________ नवमोऽध्यायः । ६८१ अद्याद् भुञ्जीतानगारः । किंविशिष्ट सन् ? स्थित उद्भः । पुनः किंविशिष्टः ? अनपाश्रयो मित्तिस्तम्भाद्यवष्टम्भरहितः । केन ? स्वहस्तेन । कथम् ? सकृदेकवारम् । छ ? अह्नि दिने । किंविशिष्टे ? मध्ये । किं कृत्त्वा ? अपास्य मुक्त्वा । का ? आद्यन्तनाडीराद्यन्तयोर्घटिकाः । कति ? तिस्रः । कियन्तं कालम् ? एकं मुहूर्ते द्वे घटिके, द्वौ वा मुहूर्ती, त्रीन्वा मुहूर्तान् । उक्तं च उदयत्थमणे काले णालीतियवज्जियम्हि मज्झम्हि | एकम्हि दुय तिए वा मुहुत्तकालेयभत्तं तु ॥ अंजलिपुडेण ठिच्चा कुण्डादिविवजणेण समपायं । पडिसुद्धे भूमितिये असणं ठिदिभोयणं णाम ॥ अत्रेयमाचारटीकोक्ता विशेषव्याख्या लिख्यते- "समपादाञ्जलिपुटाभ्यां न सर्व एकभक्तकालस्त्रिमुहूर्तमात्रोपि विशिष्यते किंतु भोजनं मुनेर्विशिष्यते । तेन त्रिमुहूर्तकालमध्ये यदा यदा भुङ्क्ते तदा तदा समपादं कृत्वाञ्जलिपुटेन भुञ्जीत । यदि पुनर्भोजनक्रियायां प्रारब्धायां समपादौ न विशिष्येते अञ्जलिपुटं च न विशिष्यते हस्तप्रक्षालने कृतेपि तदानीं जानूपरिव्यतिक्रमो योयमन्तरायः पठितः स न स्यात् । नाभेर घोनिर्गमनं योंतराय: सोपि स्यात् 1 अतो ज्ञायते त्रिमुहूर्तमध्ये एकत्र भोजनक्रियां प्रारभ्य केनचित्कारणान्तरेण हस्तौ प्रक्षाल्य मौनेनान्यत्र गच्छेद्भोजनाय । यदि पुनः सोन्तरायो भुञ्जानस्यैकत्र भवतीति मन्यते जानूपरिव्यतिक्रमविशेषणमनर्थकं स्यात् । एवं विशेषणमुपादीयेत । समपादयोर्मनागपि चलितयोरन्तरायः स्यात् । नाभेरधोनिर्गमनं दूरत एव न संभवतीति अन्तराय परिहारार्थमनर्थकं ग्रहणं स्यात् । तथा पादेन किंचिग्रहणमित्येवमादीन्यन्तरायख्यापकानि सूत्राण्यनर्थकानि स्युः । तथानलिपुटं यदि न भिद्यते करेण किंचिद्रहणमन्तरायस्य विशेषणमनर्थकं स्यात् । गृह्णातु वा मा वा अञ्जलिपुटभेदेनान्तरायः स्यादित्येवमुच्यते । तथा जान्वधःपरामर्शः सोप्यन्तरायस्य विशेषणं न स्यात् । एवमन्येप्यन्तराया न स्युः इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698