Book Title: Anagar Dharmamrutam
Author(s): Ashadhar, Bansidhar Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
नवमोऽध्यायः ।
ब्राह्मणे क्षत्रिये वैश्ये सुदेशकुलजातिजे । अर्हतः स्थाप्यते लिङ्गं न निन्द्यबालकादिषु ॥ पतितादेर्न सा देया जैनी मुद्रा बुधार्चिता । रत्नमाला सतां योग्या मण्डले न विधीयते ॥ न कोमलाय बालाय दीयते व्रतमर्चितम् । न हि योग्ये महोक्षस्य भारे वत्सो नियोज्यते ॥
न च मुमुक्षूणां दीक्षादानादिकं विरुध्यते सरागचरितानां तद्विधानात् ।
यदाह
-
दंसणेणाणुवदेसो सिस्सग्गहणं च पोसणं तेसिं । चरिया हि सरायाणं जिदिपूजोवएसो य ॥
महाव्रतविहीनस्य केवलेनैव लिङ्गेन दोषविशुद्धिर्न स्यादिति दृष्टान्तेन स्पष्टयति-
महाव्रताहते दोषो न जीवस्य विशोध्यते । लिङ्गेन तोयादूषेण वसनस्य यथा मलः ॥ ८९ ॥
६७९
न विशोध्यते न निराक्रियते । कोसौ ? दोषो रागादिः । केन ? लिङ्गेन चिह्नमात्रेण । कस्य ? जीवस्य । कथम् ? ऋते विना । कस्मात् ? महाव्रतात् । अत्र दृष्टान्तमाह-यथा न विशोध्यते । कोसौ ? मलः । कस्य ? वसनस्य वस्त्रस्य । केन ? ऊषेण क्षारमृत्तिकया । कथम् ? ऋते । कस्मात् ? तोयान्नीरात् ।
लिङ्गयुक्तस्य व्रतं कषायविशुद्धये स्यादिति निदर्शनेन द्रढयतिमृद्यन्त्रकेण तुष इव दलिते लिङ्गग्रहेण गार्हस्थ्ये । मुशलेन कणे कुण्डक इव नरि शोध्यो व्रतेन हि कषायः ॥ ९० ॥ शोध्यः शोधयितुं शक्यः । कोसौ ? कषायः क्रोधादिः । क ? नरि
१- दर्शनज्ञानोपदेशः शिष्यग्रहणं च पोषणं तेषाम् । चर्या हि सरागाणां जिनेन्द्रपूजोपदेशश्च ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698