Book Title: Anagar Dharmamrutam
Author(s): Ashadhar, Bansidhar Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 683
________________ अनगारधर्मामृते लोचो द्वित्रिचतुर्मासैः सोपवासप्रतिक्रमः। लघुसिद्धर्षिभक्त्यान्यः क्षम्यते सिद्धभक्तितः॥ आदिमान्तिमतीर्थकरावेव व्रतादिभेदेन सामायिकमुपदिशतः म नाजितादयो द्वाविंशतिरिति सहेतुकं व्याचष्टे दुःशोधमृजुजडैरिति पुरुरिव वीरोऽदिशद्रतादिभिदा। दुष्पालं वक्रजडैरिति साम्यं नापरे सुपटुशिष्याः॥ ८७ ॥ आदिशदुपदिष्टवान् । कोसौ ? वीरोन्तिमतीर्थकरः। किं तत् ? साम्यं सामायिकाख्यं चारित्रम् । कया ? व्रतादिभिदा व्रतसमितिगुप्तिभेदेन । कुतो हेतोः ? इति । किमिति ? भवति । किं तत् ? साम्यम् । कीदृशम् ? दुष्पालं पालयितुमशक्यम् । कैः ? वक्रजडैरनाजवजाड्योपेतैः शिष्यैर्ममेति । क इव ? पुरुरिव । इवशब्दो यथार्थः । यथा पुरुरादिनाथः साम्यं व्रतादिभिदाऽदिशत् । कुतो हेतोः ? इति । किमिति ? भवति । किं तत् ? साम्यम् । कीदृशम् ? दुःशोधं शोधयितुमशक्यम् । कैः? ऋजुजडेरार्जवजाड्योपेतैः शिष्यैर्ममेति । तथा ऽपरेऽजितादयो द्वाविंशतिस्तीर्थकरा व्रतादिभिदा साम्यं नादिशन् । साम्यमेव व्रतमिति कथयन्ति म स्वशिष्याणामने । कीदृशास्ते ? सुपटुशिष्या यतः ऋजुवक्रजडत्वभावात् सुष्टु पटवो व्युत्पन्नतमाः शिष्या येषां त एवम् । जिनमुद्रास्थापनयोग्यतामुपदिशतिसुदेशकुलजात्यङ्गे ब्राह्मणे क्षत्रिये विशि। निष्कलङ्के क्षमे स्थाप्या जिनमुद्रार्चिता सताम् ॥८८॥ स्थाप्या आरोग्या। कासौ ? जिनमुद्रा धर्माचार्यैरिति शेषः । किं. विशिष्टा ? अर्चिता पूज्या । केषाम् ? सतामिन्द्रादीनाम् । क ? पुंसि । कीदृशे ? ब्राह्मणे । न केवलं, क्षत्रिये । न केवलं विशि वैश्ये । पुनः कीदृशे ? सुदेशकुलजात्यङ्गे प्रशस्तदेशवंशमातृपक्षशरीरे । देशश्च कुलं च जातिश्चाङ्गं च देशकुलजात्यङ्गानि । शोभनानि देशकुलजात्यङ्गानि यस्य स एवम् । पुनः कीदृशे ? निष्कलङ्के ब्राह्मणहत्याद्यपराधरहिते। पुनरपि कीदृशे ? क्षमे बालत्ववृद्धत्वादिरहिते । उक्तं च Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698