Book Title: Anagar Dharmamrutam
Author(s): Ashadhar, Bansidhar Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 688
________________ नवमोऽध्यायः। ६८३ क्रमः। पुनः किंविशिष्टः ? सहाअलिपुटः । चतुरङ्गुलान्तरौ समौ अकिमौष क्रमौ पादौ यस्य स एवम् । तथा सहाअलिपुटेन अञ्जलीसंश्लेषणेन वर्तमानः॥ एकभक्तकस्थानयोर्भेदनिर्णयार्थमाहशुद्ध पादोत्सृष्टपातपरिवेषकभूत्रये । भोक्तुः परेप्येकभक्तं स्यात् त्वेकस्थानमेकतः ॥९५ ॥ एकभक्तं मुनेः स्यात् । किंविशिष्टस्य ? भोक्तुर्भुञानस्य ।क ? पादो. त्सृष्टपातपरिवेषकभूत्रये । किंविशिष्टे ? परेपि यत्रादौ भोजनक्रिया प्रारब्धा ततोन्यत्रापि न परं तत्रैवेत्यपिशब्दार्थः । कीदृशे ? शुद्ध जीववधादिविरहिते । पादौ चोत्सृष्टपातश्च परिवेशकश्च पादोत्सृष्टपातपरिवेषकाः । तेषां भूत्रयं भूमित्रयं, तत्र । स्यात्पुनर्मुनेरेकस्थानम् । क ? शुद्ध पादो. सृष्टपातपरिवेषकभूत्रये । किंविशिष्टे ? एकत एकत्र । स्थानान्तरसंचारर. हिते इत्यर्थः । एकभक्तान्मूलगुणादेकस्थानस्योत्तरगुणत्वेनाप्यन्तरमाहअकृत्वा पादविक्षेपं भुञ्जानस्योत्तरो गुणः । एकस्थानं मुनेरेकभक्तं त्वनियतास्पदम् ॥ ९६ ॥ एकस्थानं मुनेरुत्तरो गुणः स्यात् । किं कुर्वाणस्य ? भुञानस्य। किं कृत्वा ? अकृत्त्वा । कम् ? पादविक्षेपं पादयोरन्यत्र संचारम् । एकभक्तं तु मुनेर्मूलगुणः स्यात् । कीदृशम् ? अनियतास्पदमनवस्थित. भोजनस्थानम् । लुञ्चस्य लक्षणं फलं चोपदिशतिनै सङ्ग्याऽयाचनाऽहिंसादुःखाभ्यासाय नाग्यवत् । हस्तेनोत्पाटनं श्मश्रुमूर्धजानां यतेर्मतम् ॥ ९७ ॥ मतमिष्टं सूत्रे । किं तत् ? हस्तेनोत्पाटनं स्वकरेणापनयनम् । केषाम् ! श्मश्रुमूर्धजानां कूर्चकेशानां शिरःकेशानां च कसा?. यतेः संयतस्य । Jain Education International For Private & Personal Use Only ___www.jainelibrary.org

Loading...

Page Navigation
1 ... 686 687 688 689 690 691 692 693 694 695 696 697 698