Book Title: Anagar Dharmamrutam
Author(s): Ashadhar, Bansidhar Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 680
________________ नवमोऽध्यायः । ६७५ भिवी प्रच्छन्नेलेन कर्दमेन वा बाध्यते । इति विंशत्यधिक दिवसशतमेकत्रावस्थानम् इत्ययमुत्सर्गः । कारणपेक्षया तु हीनमधिकं वावस्थानम् । संयतानामाषाढशुक्लदशम्याः प्रभृति स्थितानामुपरिष्टाञ्च कार्तिकपौर्णमास्यास्त्रिंशदिवसावस्थानम् । वृष्टिबहुलतां श्रुतग्रहणं शक्त्यभावं वैयावृत्त्यकरणं प्रयोजनमुद्दिश्यावस्थानमेकत्र । इत्युत्कृष्टः कालः । मायाँ दुर्भिक्षे ग्रामजनपदचलने वा गच्छन्निमित्ते समुपस्थिते देशान्तरं याति । अवस्थाने सति रत्नत्रयविराधना भविष्यति । इति पौर्णमास्यामापाढ्यामतिक्रान्तायां प्रतिपदादिषु दिनेषु याति यावच्चत्वारो दिवसाः । एतदपेक्ष्य हीनता कालस्य । एष दशमः स्थितिकल्पः । इत्याराधनाटीकायाम् । तट्टिपणके तु द्वाभ्यां द्वाभ्यां मासाभ्यां निषिद्धिका द्रष्टव्यति पायो नाम दशमः स्थितिकल्पो व्याख्यातः । उक्तं च आचेलक्यौदेशिकशय्यागृहराजपिण्डकृतिकर्म । ज्येष्ठव्रतप्रतिक्रममासं पाद्यः श्रमणकल्पः॥ एतेषु दशसु नित्यं समाहितो नित्यवाच्यताभीरुः। क्षपकस्य विशुद्धिमसौ यथोक्तचर्या समुद्दिशति ॥ विशोधयति विशुद्धिं नयति । कोसौ ? निर्यापकः संसारान्निर्यान्तं प्रयोजयिता । कम् ? क्षपकं कर्मक्षपणोद्यतम् । किं विशिष्टः ? पृथुकीर्तिः पृथ्वी विपुला कीर्तिरासमुद्रं क्षपकोद्धरणाजातं यशो यस्य स एवम् । पुनः किंविशिष्टः ? तनिष्ठः तेषु आचेलक्यादिषु दशसु स्थितिकल्पेषु निष्ठा तत्परता यस्यासौ तनिष्टः । तानेवाह-भवन्ति । काः ? आचेलक्यौद्देशिकशय्याधरराजकीयपिण्डोज्झाः । औद्देशिकश्च शय्याधरश्च राजकीयश्चौदेशिकशय्याधरराजकीयाः। ते च ते पिण्डाश्च 'उपलक्ष. णाद्भक्तपानभेषजादयः' औद्देशिकशय्याधरराजकीयपिण्डाः । तेषामुल्झा वर्जनादि । आचेलक्यं चौद्देशिकादिपिण्डोज्झाश्च चतस्रः । तथा कृतिकर्म तथा व्रतरोपणयोग्यत्वं तथा ज्येष्ठता तथा प्रतिक्रमणं तथा मासैकवासिता तथा योगश्च । किंविशिष्टः ? वार्षिकः । पुनः किंविशिष्टः ? दशमः स्थितिकल्पः। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698