Book Title: Anagar Dharmamrutam
Author(s): Ashadhar, Bansidhar Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 678
________________ नवमोऽध्यायः। नादरस्ववशत्वचेतोविशुद्धिप्राकट्यनिर्भयत्वसर्वत्रविश्रब्धत्वप्रक्षालनोद्वेष्टनादिपरिकर्मवर्जनविभूषामूर्छालाघवतीर्थकराचरितत्वानिगूढबलवीर्यताधपरिमितगुणग्रामोपलम्भात् स्थितिकल्पकल्पत्वेनोपदिष्टम् । एतच्च श्रीविजयाचार्यविरचितसंस्कृतमूलाराधनाटीकायां सुस्थितसूत्रे विस्तरतः समर्थितं द्रष्टव्यम् । इह न प्रपंच्यते, ग्रन्थगौरवभयात् । अत एव श्रीपद्मनन्दिपादैरपि सचेलतादृषणं दिङ्मात्रमिदमधिजगे म्लाने क्षालनतः कुतः कृतजलाधारभ्भतः संयमो, नष्टे व्याकुलचित्तताथ महतामप्यन्यतः प्रार्थनम् । कौपीनेपि हृते परैश्च झगिति क्रोधः समुत्पद्यते, तन्नित्यं शुचिरागहृच्छमवतां वस्त्रं ककुम्मण्डलम् ॥ तथैव श्रीसोमदेवपण्डितैरप्यवादिविकारे विदुषां दोषो नाविकारानुवर्तने । तन्नग्नत्ये निसर्गोत्थे को नाम द्वेषकल्मषः॥ नैष्किंचन्यमहिंसा च कुतः संयमिनां भवेत् । ते सङ्गाय यदीहन्ते वल्कलाजिनवाससाम्॥ औद्देशिकपिण्डोज्झा श्रमणानुद्दिश्य कृतस्य भक्तादेवर्जनम् । शय्याधरपिण्डोज्झा वसतेः कारकः संस्कारकोऽत्रास्वेति संपादकश्चेति त्रयः शय्याधरशब्देनोच्यन्ते । तेपामयं तत आगतो वा शय्याधरः पिण्ड उपलक्षणाद्भक्तोपकरणाद्युपयोगिद्रव्यम् तदुर्जनम् । सति शय्याधरपिण्डग्रहणे प्रच्छन्नमयं योजयेदाहारादिकं धर्मफललोभात् । यो वाहारं दातुमक्षमो दरिद्रो लुब्धो वा न चासौ वसतिं प्रयच्छेत् । सति वसतिदाने आहारादाने च लोका मां निन्दन्ति । स्थिता वसतावस्य यतयः । न चानेन मन्दभाग्येन तेषामाहारो दत्तः । इति आहारं वसतिं च प्रयच्छति । तस्मिन् बहूपकारितया यते स्नेहश्च स्यात् । इति दोषाः स्युः । अन्ये पुनः शय्यागृहपिण्डत्याग इति पठित्वा एवं व्याचक्षते । -"मार्ग व्रजता यत्र गृहे रात्रौ सुप्यते तत्रैवान्यदिने भोज नपरिहारो वसतिसंवन्धिद्रव्यनिमित्तपिण्डस्य वा त्याग" इति । राजकीयपिण्डोज्झा । अत्र राजशब्देनेक्ष्वाकुप्रभृतिकुले जातो राजते प्रकृति रञ्जयतीति वा राजा राज्ञा सदृशो महर्द्धिको वाभण्यते। तत्स्वामिकभक्तादिकवर्जनम् । तद्गृहप्र Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698