Book Title: Anagar Dharmamrutam
Author(s): Ashadhar, Bansidhar Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 679
________________ ६७४ अनगारधर्मामृते वेशे हि यतेः स्वच्छन्दचित्रककुक्कुराद्यपघातः । तद्रूपावलोकनाद्वरतुरगादीनां त्रासः तं प्रति गर्वितदासाधुपहासः । अवरुद्धाभिः स्त्रीभिमैथुनसंज्ञया बाध्यमानाभिः पुत्रार्थिनीभिर्वा बलात्तस्य स्वगृहे प्रवेशनमुपभोगार्थम् । विप्रकीर्णरत्नसुवर्णादिकस्यान्यैः स्वयं चोरितस्य संयत आयात इति तत्र तच्चोरिकाध्यारोपणम् । राजाऽस्य विश्वस्तो राज्यं नाशयिष्यतीति क्रुद्धरमात्यादिभिर्वधबन्धादिकं च स्यात् । तथाऽऽहाराविशुद्धिः क्षीरादिविकृतिसेवाऽनयरलादेलोभाञ्चोरणं परस्त्रीदर्शनाद्रागोद्रेको लोकोत्तरविभूतिदर्शनाञ्च तन्निदानकरणं संभवेत् । एतदोषाभावेऽन्यत्र भोजनासंभवे च श्रुतविच्छेदपरिहारार्थ राजपिण्डोपि न प्रतिषिध्यते । कृतिकर्म षडावश्यकानुष्ठानं गुरूणां विनयकरणं वा । व्रतरोपणयोग्यत्वमचेलतायां स्थित औद्देशिकादिपिण्डत्यागोद्यतो गुरुभक्तिमान् विनीतश्च व्रतारोपणयोग्यः स्यात् । उक्तं च आंचलके य ठिदो उद्देसादीय परिहरदि दोसे । गुरुभत्तिमं विणीदो होदि वदाणं स अरिहो दु॥ ज्येष्ठता मातापितृगृहस्थोपाध्यायार्यिकादिभ्यो महत्त्वमनुष्टानेन वा श्रेष्ठत्वम् । प्रतिक्रमणं प्रागुक्तलक्षणम् । मासैकवासिता त्रिंशदहोरात्रमेकत्र ग्रामादौ वसति तद्वतः तद्भावः । एकत्र हि चिरावस्थाने उद्गमादिदोषपरि. हाराक्षमत्वं क्षेत्रप्रतिबद्धता शातगुरुतालसता सौकुमार्याभावनाज्ञातभिक्षाग्राहिता च दोषाः स्युरिति मूलाराधनाटीकायाम् । तट्टिप्पणके तु योगग्रहणादौ योगावसाने च तस्मिन् स्थाने मासमात्रं तिष्ठति इति मासं नाम नवमः स्थितिकल्पो व्याख्यातः । उक्तं च पडिबंधो लहुयत्तं ण जणुवयारो ण देसविण्णाणं । णाणादीण अवुद्धी दोसा अविहारपरिकम्हि ॥ योगश्चेत्यादि । वर्षाकालस्य चतुषु मासेष्वेकत्रैवावस्थानम् । स्थावरजङ्गमजीवाकुला हि तदा क्षितिः इति । तदा भ्रमणे हि महानऽसंयमः । वृष्ट्या शीतवातपातेन चात्मविराधना । पतेद्वा वाप्यादिषु स्थाणुकण्टकादि१-आचेलक्ये च स्थित उद्देशादिं च परिहरति दोषम् । गुरुभक्तिमान् विनीतो भवति व्रतानां सोऽहंस्तु ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698