Book Title: Anagar Dharmamrutam
Author(s): Ashadhar, Bansidhar Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 658
________________ अष्टमोऽध्यायः। Vvvvv स्वाध्याये देववन्दनायां भक्तप्रत्याख्याने च यथा कालक्रमनियमोस्ति । न थात्रेत्यर्थः ॥ इति नित्यक्रियाप्रयोगविधानम् । अथोत्तरप्रबन्धेन नैमित्तिकक्रियां व्याकर्तुकामः प्रथमं तावञ्चतुर्दशीक्रियाग्योगविधि मतद्वयेनाह त्रिसमयवन्दने भक्तिद्वयमध्ये श्रुतनुतिं चतुर्दश्याम् । प्राहुस्तद्भक्तित्रयमुखान्तयोः केपि सिद्धशान्तिनुती ॥४५॥ प्राहुः प्राकृतक्रियाकाण्डचारित्रसारमतानुसारिणः सूरयः प्रणिगदन्ति । काम् ? श्रुतनुतिं श्रुतभक्तिम् । कस्याम् ? चतुर्दश्याम् । क ? त्रिसमय. बन्दने भक्तिद्वयमध्ये त्रैकालिकनित्यदेववन्दनाभक्तिद्वयस्य चैत्यभक्तिपञ्चगुरुभक्तियुगलस्यान्तः । एतेन नित्यत्रिकालदेववन्दनायुक्तैव चतुर्दशीक्रिया कर्तव्येति लक्षयति । यथाह क्रियाकाण्डे जिणदेववन्दणाए चेदियभत्तीय पंचगुरुभत्ती। चउदसियं तं मज्झे सुदभत्ती होइ कायब्वा ॥ चारित्रसारेप्याह-“देवतास्तवनक्रियायां चैत्यभक्तिं कुर्यात् । चतुर्दशीदिने तयोर्मध्ये श्रुतभक्तिर्भवति" इति । केपि केचित्पुनः संस्कृतक्रियाकाण्डमतानुसारिणः सूरयः प्राहुः। के ? सिद्धशान्तिनुती। कयोः ? तद्भक्तित्रयमुखान्तयोः । मुखमारम्भः। अन्तः पर्यन्तः। मुखं चान्तश्च मुखान्तौ तद्भक्तित्रयस्य चैत्यश्रुतपञ्चगुरुभक्तीनां त्रितयस्य मुखान्तौ तद्भक्ति यमुखान्तौ, तयोः । तद्भक्तित्रयस्यारम्भे सिद्धभक्तिपर्यन्ते शान्तिभक्तिं चतुर्दश्यां प्राहुरित्यर्थः । संस्कृतक्रियाकाण्डपाठो यथा सिद्ध चैत्ये श्रुते भक्तिस्तथा पञ्चगुरुस्तुतिः। शान्तिभक्तिस्तथा कार्या चतुर्दश्यामिति क्रिया ॥ कार्यवशाच्चतुर्दशीक्रियाव्यतिक्रमप्रतिविधानमाह चतुर्दशीक्रिया धर्मव्यासङ्गादिवशान्न चेत् । कर्तुं पार्येत पक्षान्ते तर्हि कार्याष्टमीक्रिया ॥ ४६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698