Book Title: Anagar Dharmamrutam
Author(s): Ashadhar, Bansidhar Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 674
________________ नवमोऽध्यायः । स्यात्सिद्धशान्तिभक्तिः स्थिरचलजिनबिम्बयोः प्रतिष्ठायाम्। अभिषेकवन्दना चलतुर्यस्नानेस्तु पाक्षिकी त्वपरे ॥ ७४ ॥ स्यात् । कोसौ ? सिद्धशान्तिभक्तिः सिद्धभक्तिः शान्तिभक्तिश्चेत्यर्थः । कस्याम् ? प्रतिष्ठायाम् । कयोः ? स्थिरचलजिनबिम्बयोः स्थिरजिनबिम्बस्य चलजिनबिम्बस्य चेत्यर्थः । तथाऽस्तु भवतु । कासौ ? अभिषेकवन्दना सिद्धचैत्यपञ्चगुरुशान्तिभक्तिलक्षणा । क्क ? चलतुर्यस्थाने चलजिनबिम्बचतुर्थदिननपने । तथास्तु | कासौ ? पाक्षिकी क्रिया सिद्धचारत्रभक्तिर्बृहदालोचना शान्तिभक्तिश्चेत्येषा । स्वाध्यायाग्राहिणां पुनर्गृहिणां सैवालोचनारहिता । क्व ? अपरेऽन्यस्मिन् स्थिरजिनप्रतिमाप्रतिष्ठाचतुर्थस्नाने इत्यर्थः । उक्तं च- चलाचलप्रतिष्ठायां सिद्धशान्तिस्तुतिर्भवेत् । वन्दना चाभिषेकस्य तुर्यस्नाने मता पुनः ॥ सिद्धवृत्तनुतिं कुर्याद्वृहदालोचनां तथा । शान्तिभक्ति जिनेन्द्रस्य प्रतिष्ठायां स्थिरस्य तु ॥ आचार्य पदप्रतिष्ठापनक्रियाविधिमाह ६६९ सिद्धाचार्यस्तुती कृत्वा सुलग्ने गुर्वनुज्ञया । लात्वाचार्यपदं शान्ति स्तुयात्साधुः स्फुरद्गुणः ॥ ७५ ॥ 1 स्तुयाद् वन्दतां साधुः श्रमणः । किंविशिष्टः ? स्फुरगुणः । स्फुरन्तः संघचेतसि चमत्कुर्वन्तो गुणा वक्ष्यमाणाः पट्त्रिंशद्यस्य सोयं स्फुरद्गुणः । कं स्तुयात् ? शान्तिम् । किं कृत्वा ? लात्वा गृहीत्वा । किं तत् ? आचार्यपदम् अद्य प्रभृति भवता रहस्यशास्त्राध्ययनदीक्षादानादिकमाचार्य कार्यमाचर्यमिति गणसमक्षं भाषमाणेन गुरुणा समर्प्यमाणपिच्छग्रहणलक्षणम् । किं कृत्वा ? कृत्त्वा । के ? सिद्धाचार्यस्तुती सिद्धभक्तिमाचार्यभक्तिं च । कया ? गुर्वनुज्ञया गुरूणामनुमत्या । क ? सुलग्ने । उक्तं च चारित्रसारे - "गुरुणामनुज्ञायां विज्ञानवैराग्यसंपन्नो विनीतो Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698