Book Title: Anagar Dharmamrutam
Author(s): Ashadhar, Bansidhar Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 672
________________ नवमोऽध्यायः । ६६७ द्वियुजः श्रुतवृत्तादीन् गणिनोऽन्तगुरून् श्रुतादिकानपि तान् । समयविदोपि यमादींस्तनुक्किशो द्वयमुखानपि द्वियुजः ॥७३॥ [ युग्मम् ). स्तोतु वन्दतां भाक्तिकलोकः । कानू ? ऋषीन् योगिनः । क्व ? सिद्धशान्त्यन्तः सिद्धानां शान्तेश्च मध्ये | सिद्धभक्तिशान्तिभक्तयोर्मध्ये योगिभक्तिं कुर्यादित्यर्थः । क्क ? वपुषि शरीरे न केवलं, निषेधिकायां च निषद्याभूमौ । कस्य ? ऋषेः सामान्यसाधोः अर्थान्मृतस्य । अत्रोत्तरत्र वपुषीत्याद्यनुवर्तनीयम् । ततोयमर्थः संपद्यते - स्तोतु भाक्तिको लोकः । कान् ? ऋषीन् । क ? सिद्धशान्त्यन्तः । किंविशिष्टान् ? श्रुतादीन् । श्रुतमादिः प्रथमं येषामृषीणां ते श्रुतादयस्तान् । क्व ? वपुषि । न केवलं, निषेधिकायां च । कस्य ? ऋषेः सामान्य साधोः । किंविशिष्टस्य ? सिद्धान्तिनः सैद्धान्तस्य । सिद्धान्तविदः साधोः काये निषेधिकायां च सिद्धश्रुतयोगिशान्तिभक्तीः कुर्यादित्यर्थः । तथा स्तोतु भाक्तिकजनः । कान् ? ऋषीन् । क्व ? सिद्धशान्त्यन्तः । किंविशिष्टान् ? वृत्तादीन् वृत्तं चारित्रमादिः प्रथमं येषामृषीणां ते वृत्तादयस्तान् । क ? वपुषि । न केवलं, निषेधिकायां च । कस्य ? ऋषेः । किंविशिष्टस्य ? उत्तरवतिनः । साधोः काये निषेधिकायां च सिद्धचारित्रयोगिशान्तिभक्तीर्विदध्यादित्यर्थः । तथा स्तोतु स्तोता । कानू ? ऋषीन् । व सिद्धशान्त्यन्तः । किंविशिष्टान् ? श्रुतवृत्तादीन् श्रुतं वृत्तं चादि प्रथमभूतं येषामृषीणां ते श्रुतवृत्तादयस्तान् । क ? वपुषि, न केवलं, निषेधिकायां च। कस्य ? ऋषेः । किंविशिष्टस्य ? द्वियुजः हे सिद्धान्तोत्तरव्रते युनक्ति द्वियुक्, तस्य सिद्धान्तोत्तरव्रतभाज इत्यर्थः । सिद्धान्तोत्तरव्रतयुक्तस्य साधोः काये निषेधिकायां च सिद्धश्रुतचारित्रयोगिशान्तिभक्तीः प्रयुञ्जीतेत्यर्थः । तथा स्तोतु वन्दारुजनः । कान् ? ऋषीन् । क ? सिद्धशान्त्यन्तः । किंविशिष्टान् ? अन्तगुरून् अन्ते समीपे गुरुराचार्यस्तुत्यतया येषामृषीणां तेऽन्तगुरवस्तान् । क्क ? वपुषि । न केवलं, निषेधिकायां च । कस्य ? ऋषेः । किंविशिष्टस्य ? गणिनः आचार्यस्यर्षेः शरीरे निषेधिकायां च सिद्धयोग्याचार्यशान्तिभक्तिभिः क्रियां कुर्यादित्यर्थः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698