Book Title: Anagar Dharmamrutam
Author(s): Ashadhar, Bansidhar Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
अनगारधर्मामृते
भक्त्या पञ्चगुरुभक्त्या शान्तिभक्त्या च योगान्तेऽर्कोदये वीरनिर्वाणक्रिया कर्तव्येत्यर्थः । अत एतक्रियानन्तरं कृत्त्या कर्तव्या। कासौ? नित्यवन्दना श्रमणैः श्रावकैश्च ।
कल्याणपञ्चकक्रियानिश्चयार्थमाहसाधन्तसिद्धशान्तिस्तुति जिनगर्भजनुषोः स्तुयावृत्तम् । निष्क्रमणे योग्यन्तं विदि श्रुताद्यपि शिवे शिवान्तमपि ॥१॥ .. स्तुयाद् वंदताम् । कोसौ ? श्रमणः श्रावको वा। कथं कृत्वा ? साधन्तसिद्धशान्तिस्तुति । आदिश्चान्तश्चाद्यन्तौ । आद्यन्तयोः सिद्धशान्तिस्तुती आदौ सिद्धभक्तिरन्ते शान्तिभक्तिश्च आद्यन्तसिद्धशान्तिस्तुती । सह ताभ्यां वर्तते यद्वृत्तस्तवनं तत् साद्यन्त सिद्धशान्तिस्तुति । क्रियाविशेषणमिदम् । कयोः ? जिनगर्भजनुषोस्तीर्थकृतां गर्भावतरणे जन्मनि च । गर्भश्च जनुश्च गर्भजनुपी। जिनानां गर्भजनुपी जिनगर्भजनुषी, तयोः । तीर्थकराणां गर्भावतरणकल्याणे जन्मकल्याणे च सिद्धचारित्रशान्तिभक्तिभिः क्रिया कार्येत्यर्थः । पुनर्जन्मकल्याणे क्रियाप्रतिपादने पञ्चानामप्येकत्र संप्र. त्ययार्थम् । तथा साधन्तसिद्धशान्तिस्तुति वृत्तं योग्यन्तं निष्क्रमणे निष्क्रमणकल्याणे भाक्तिकः स्तुयात् । सिद्धचारित्रयोगिशान्तिभक्तयः कार्या इत्यर्थः। योगिनोऽन्ते समीपे यस्य वृत्तस्य तद्योग्यन्तम् । तथा विदि ज्ञानकल्याणे साद्यन्तसिद्धशान्तिस्तुति वृत्तं श्रुतादि श्रुतपूर्वम् । अपिशब्दाद्योग्यन्तं च स्तुयात् । सिद्धश्रुतचारित्रयोगिशान्तिभक्तयः कार्या इत्यर्थः । तथा शिवे निर्वाणक्षेत्रेऽन्यत्र वा साद्यन्तसिद्धशान्तिस्तुति वृत्तं शिवान्तं निर्वाणपर्यन्तम् , अपिशब्दाच्छ्रुतादियोग्यन्तं च स्तुयात् । सिद्धश्रुतचारित्रयोगिनिर्वाणशान्तिभक्तयः कार्या इत्यर्थः ।
पञ्चत्वप्राप्तादीनां काये निषेधिकायां च क्रियाविशेषनिर्णयमार्यायुग्मेन विधत्ते
वपुषि ऋषः स्तोतु ऋषीन् निषेधिकायां च सिद्धशान्त्यन्तः सिद्धान्तिनः श्रुतादीन् वृत्तादीनुत्तरव्रतिनः ॥७२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698