Book Title: Anagar Dharmamrutam
Author(s): Ashadhar, Bansidhar Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
६७०
अनगारधर्मामृते
धर्मशीलः स्थिरश्च भूत्वाचार्यपदव्या योग्यः साधुर्गुरुसमक्षे सिद्धाचार्यभक्ति कृत्त्वाचार्यपदवीं गृहीत्वा शान्तिभक्तिं कुर्यात्" इति । आचार्यस्य षट्त्रिंशतं गुणान् दिशतिअष्टावाचारवत्त्वाद्यास्तपांसि द्वादश स्थितेः। कल्पा दशाऽऽवश्यकानि षट् षट्त्रिंशद्गुणा गणेः ॥ ७६ ॥ भवन्ति । के ? गुणाः। कति ? षट्त्रिंशत् । कस्य ? गणेः । "अनूचानः प्रवचने साङ्गेधीती गणिश्च स" इति वचनाद्गणिरिव गणिराचार्यः, साङ्गप्रवचनाधीतित्वात् । गुरोरिति वा पाठः । के के भवन्ति तावद्गुणाः ? किंविशिष्टाः ? आचारवत्त्वाद्याः । कति ? अष्टौ । आचारा अस्य सन्तीत्याचारवान् । तस्य भाव आचारवत्वम् । तदाद्यं येषामाधारवत्त्वादीनां त एबम् । तथा भवन्ति गुणाः । कानि ? तपांसि । कति ? द्वादश । तथा भवन्ति गुणाः। के ? कल्पा विशेषाः । कस्याः ? स्थितेनिष्ठासौष्टवस्य । कति ? दश । तथा भवन्ति । के ? गुणाः । कानि? आवश्यकानि । कति ? षट् । एवं समुदिताः पदत्रिंशद्भवन्ति । आचारवत्त्वादिस्वरूपोद्देशार्थमाहआचारी मूरिराधारी व्यवहारी प्रकारकः । आयापायदिगुत्पीडोऽपरिस्रावी सुखावहः ॥ ७७ ॥ सूरिराचार्यो भवति । किंविशिष्टः ? आचारी तथाऽऽधारी तथा व्यवहारी तथा प्रकारका तथा ऽऽयापायदिक आयापायदर्शी तथोत्पीडः। उत्कृष्टं पीडयति क्षपकमित्युत्पीडः। उत्पीडक इत्यर्थः । तथा सुखकारी सुखं निर्वृतिं करोति तच्छीलः । तथाऽपरिस्रावी नास्ति परिसंवो यस्मादसावऽपरिस्रवोऽपरिस्रावी । आलोचितदोषप्रकाशक इत्यर्थः ।
आचारपदादिलक्षणनिर्णयार्थ श्लोकद्वयमाहपञ्चाचारकृदाचारी स्यादाधारी श्रुतोद्धरः। व्यवहारपटुस्तद्वान् परिचारी प्रकारकः ॥ ७८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698