________________
अष्टमोऽध्यायः।
Vvvvv
स्वाध्याये देववन्दनायां भक्तप्रत्याख्याने च यथा कालक्रमनियमोस्ति । न थात्रेत्यर्थः ॥ इति नित्यक्रियाप्रयोगविधानम् ।
अथोत्तरप्रबन्धेन नैमित्तिकक्रियां व्याकर्तुकामः प्रथमं तावञ्चतुर्दशीक्रियाग्योगविधि मतद्वयेनाह
त्रिसमयवन्दने भक्तिद्वयमध्ये श्रुतनुतिं चतुर्दश्याम् । प्राहुस्तद्भक्तित्रयमुखान्तयोः केपि सिद्धशान्तिनुती ॥४५॥ प्राहुः प्राकृतक्रियाकाण्डचारित्रसारमतानुसारिणः सूरयः प्रणिगदन्ति । काम् ? श्रुतनुतिं श्रुतभक्तिम् । कस्याम् ? चतुर्दश्याम् । क ? त्रिसमय. बन्दने भक्तिद्वयमध्ये त्रैकालिकनित्यदेववन्दनाभक्तिद्वयस्य चैत्यभक्तिपञ्चगुरुभक्तियुगलस्यान्तः । एतेन नित्यत्रिकालदेववन्दनायुक्तैव चतुर्दशीक्रिया कर्तव्येति लक्षयति । यथाह क्रियाकाण्डे
जिणदेववन्दणाए चेदियभत्तीय पंचगुरुभत्ती।
चउदसियं तं मज्झे सुदभत्ती होइ कायब्वा ॥ चारित्रसारेप्याह-“देवतास्तवनक्रियायां चैत्यभक्तिं कुर्यात् । चतुर्दशीदिने तयोर्मध्ये श्रुतभक्तिर्भवति" इति । केपि केचित्पुनः संस्कृतक्रियाकाण्डमतानुसारिणः सूरयः प्राहुः। के ? सिद्धशान्तिनुती। कयोः ? तद्भक्तित्रयमुखान्तयोः । मुखमारम्भः। अन्तः पर्यन्तः। मुखं चान्तश्च मुखान्तौ तद्भक्तित्रयस्य चैत्यश्रुतपञ्चगुरुभक्तीनां त्रितयस्य मुखान्तौ तद्भक्ति
यमुखान्तौ, तयोः । तद्भक्तित्रयस्यारम्भे सिद्धभक्तिपर्यन्ते शान्तिभक्तिं चतुर्दश्यां प्राहुरित्यर्थः । संस्कृतक्रियाकाण्डपाठो यथा
सिद्ध चैत्ये श्रुते भक्तिस्तथा पञ्चगुरुस्तुतिः।
शान्तिभक्तिस्तथा कार्या चतुर्दश्यामिति क्रिया ॥ कार्यवशाच्चतुर्दशीक्रियाव्यतिक्रमप्रतिविधानमाह
चतुर्दशीक्रिया धर्मव्यासङ्गादिवशान्न चेत् । कर्तुं पार्येत पक्षान्ते तर्हि कार्याष्टमीक्रिया ॥ ४६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org