SearchBrowseAboutContactDonate
Page Preview
Page 659
Loading...
Download File
Download File
Page Text
________________ ६५४ अनगारधर्मामृते न चेत्पार्यंत यदि न शक्येत साधुना चतुर्दशीक्रिया । किं कर्तुम् ? कर्तुम् । कस्मात् ? धर्मव्यासङ्गादिवशात् । आदिशब्देन क्षपकनिर्यापणादिग्रहणम् । तर्हि तस्मिन् व्यतिक्रमे कार्या । कासौ। अष्टमीक्रिया। क ? पक्षान्ते अमावास्यापौर्णमास्योः । उक्तं च चारित्रसारे "चतुर्दशीदिने धर्मव्यासङ्गादिना क्रिया कर्तुं न लभ्येत चेत् पाक्षिकेष्टम्यां क्रिया कर्तव्या।" इति । क्रियाकाण्डेपि जदि पुण धम्मव्वासंगा ण कया होज चउद्दसीकिरिया ॥ तो पुण्णिमाइदिवसे कायव्वा पक्खिया किरिया ॥ अष्टम्याः पक्षान्तस्य च क्रियाविधि चारित्रभक्त्यनन्तरभाविनं सर्वत्रालोचनाविधिं चोपदिशति स्यात् सिद्धश्रुतचारित्रशान्तिभक्त्याष्टमीक्रिया। पक्षान्ते साऽश्रुता वृत्तं स्तुत्वालोच्यं यथायथम् ॥४७॥ स्यात् । कासौ ? अष्टमीक्रिया । कया ? सिद्धश्रुतचारित्रशान्तिभक्त्या । तथा पक्षान्त स्यात् । कासौ ? सा सिद्धश्रुतचारित्रशान्तिभक्तिः। किंविशिष्टा ? अश्रुता श्रुतभक्तिवा । तथा वृत्तं चारित्रं स्तुत्त्वा आलोच्यं साधुभिः। कथम् ? यथायथं यथास्वम् । उक्तं च चारित्रसारे-"अष्टम्यां सिद्धश्रुतचारित्रशान्तिभक्तयः, पाक्षिके सिद्धचारित्रशान्तिभक्तयः ।" इति । यत्पुनः संस्कृतक्रियाकाण्डे सिद्धश्रुतसुचारित्रचैत्यपञ्चगुरुस्तुतिः । शान्तिभक्तिश्च षष्ठीयं क्रिया स्यादष्टमीतिथौ ॥ सिद्धचारित्रचैत्येषु भक्तिः पञ्चगुरुष्वपि ॥ शान्तिभक्तिश्च पक्षान्ते जिने तीर्थं च जन्मनि ॥ इति - १-यदि पुनर्धर्मव्यासंगान्न कृता भवेत् चतुर्दशीक्रिया । - ताई पूर्णमासीदिवसे कर्तव्या पाक्षिकी क्रिया ॥ . Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy