SearchBrowseAboutContactDonate
Page Preview
Page 660
Loading...
Download File
Download File
Page Text
________________ नवमोऽध्यायः। श्रूयते तन्नित्यदेववन्दनायुक्तयोरेतयोर्विधानमुक्तमिति वृद्धसंप्रदायः । सिद्धप्रतिमायां तीर्थकरजन्मन्यपूर्वजिनचैत्ये च क्रियोपदेशार्थमाह सिद्धभक्त्यैकया सिद्धप्रतिमायां क्रिया मता। तीर्थकृज्जन्मनि जिनप्रतिमायां च पाक्षिकी ॥४८॥ मता। कासौ ? क्रिया। कस्याम् ? सिद्धप्रतिमायाम् । कया ? सिद्धभत्त्या। किंविशिष्टया? एकया। तथा पाक्षिकी क्रिया मता। क ? तीर्थकृजन्मनि । न केवलं, जिनप्रतिमायां च । पूर्वजिनचैत्ये॥ अपूर्वचैत्यवन्दनानित्यदेववन्दनाभ्यामष्टम्यादिक्रियासु योगे चिकीर्षिते चैत्यपञ्चगुरुभक्त्योः प्रयोगस्थानमाह दर्शनपूजाविसमयवन्दनयोगोष्टमीक्रियादिषु चेत् । प्राक् तर्हि शान्तिभक्तेः प्रयोजयेच्चैत्यपञ्चगुरुभक्ती ॥४९॥ दर्शनपूजा अपूर्वचैत्यवन्दना । निसमयवन्दनं त्रैकालिकनित्यवन्दना । दर्शनपूजा च त्रिसमयवन्दनं च दर्शनपूजाबिसमयवन्दने । ताभ्यां योगो योजना चेद्भवति । कासु ? अष्टमीक्रियादिषु अष्टम्यादिक्रियासु । तर्हि प्रयोजयेत्साधुः । के ? चैत्यपश्चगुरुभक्ती । कथम् ? प्राक् पूर्वम् । कस्याः ? शान्तिभक्तेः। उक्तं च चारित्रसारे "अष्टम्यादिक्रियासु दर्शनपूजात्रिकालदेववन्दनायोगे। शान्तिभक्तितः प्राक्चैत्यभक्तिं पञ्चगुरुभक्तिं च कुर्यात्" इति। एकत्र स्थानेऽनेकापूर्वचैत्यदर्शने क्रियाप्रयोगविषयं पुनस्तदर्शने तदपूर्वत्वकालेयत्तां चोपदिशति दृष्ट्वा सर्वाण्यपूर्वाणि चैत्यान्येकत्र कल्पयेत् । क्रियां तेषां तु षष्ठेनुश्रूयते मासऽपूर्वता ॥ ५० ॥ - २-अष्टमीचतुर्दश्योः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy