________________
अनगारधर्मामृते
कल्पयेत् प्रयुञ्जीत साधुः । काम् ? क्रियाम्। व ? एकत्र एकस्मिअभिरुचिते जिनचैत्यविषये। किं कृत्वा ? दृष्ट्वा । कानि ? चैत्यानि । किंविशिष्टानि ? अपूर्वाणि । कियन्ति ? सर्वाणि निःशेषाणि । तेषां तु चैत्यानामनुश्रूयते व्यवहर्तृजनपारम्पर्येणाकर्ण्यते । कासौ ? अपूर्वता अपूर्वस्वम् । क ? मासि । किंविशिष्टे ? षष्ठे। क्रियाविषयतिथिनिर्णयार्थमाहत्रिमुहूर्तेपि यत्रार्क उदेत्यस्तमयत्यथ । स तिथिः सकलो ज्ञेयः प्रायो धर्येषु कर्मसु ॥५१॥ ज्ञेयः । कोसौ ? स तिथिः। किंविशिष्टः ? सकलः संपूर्णः । केषु ? कर्मसु क्रियासु । किंविशिष्टेषु ? धर्येषु धर्मादनपेतेषु । यत्र किम् ? यत्र त्रिमुहूर्तेपि मुहूर्तत्रयवर्तिन्यपि । किं पुनरधिके इत्यपिशब्दार्थः । उदेति उद्गच्छत्यर्क आदित्यः । अथ अथवा अस्तमयति अस्तं गच्छति । प्राय इति देशकालादिवशादन्यथापि । बहुधा व्यवहर्तृणां प्रयोगदर्शनादेतदुच्यते ॥ प्रतिक्रमणे प्रयोगविधिं श्लोकपञ्चकेनाचष्टेपाक्षिक्यादिप्रतिक्रान्तौ वन्देरन्विधिवद्गुरुम् । सिद्धवृत्तस्तुती कुर्याद्वी चालोचनां गणी ॥५२॥ देवस्याग्रे परे सूरेः सिद्धयोगिस्तुती लघू ।। सवृत्तालोचने कृत्वा प्रायश्चित्तमुपेत्य च ॥ ५३॥ वन्दित्वाचार्यमाचार्यभक्त्या लघ्व्या समूरयः । प्रतिक्रान्तिस्तुतिं कुर्युः प्रतिक्रामेत्ततो गणी ।। ५४ ॥ अथ वीरस्तुति शान्तिचतुर्विंशतिकीर्तनाम् । सवृत्तालोचनां गुवी सगुर्वालोचनां यताः ॥५५॥ मध्यां मूरिनुतिं तां च लध्वीं कुयुः परे पुनः। प्रतिक्रमा बृहन्मध्यसूरिभक्तिद्वयोज्झिताः॥५६॥पञ्चकम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org