SearchBrowseAboutContactDonate
Page Preview
Page 662
Loading...
Download File
Download File
Page Text
________________ नवमोऽध्यायः। वन्देरन् । के ? शिष्यसधर्माणः । कम् ? गुरुमाचार्यम् । कथम् ? विधिवद लध्व्या सिद्धगणिस्तुत्या 'गणी वन्द्यो गवासनात् सैद्धान्तोन्तः श्रुतस्तुत्या' इति पूर्वोक्तविधिना, 'लध्वीभिः सिद्धश्रुताचार्यभक्तिभिः' इत्यनेन विधानेन वा, व्यवहारानुरोधात् । कस्याम् ? पाक्षिक्यादिप्रतिकान्तौ विषये पाक्षिक्यां चातुर्मासिक्यां सांवत्सरिक्यां वा प्रतिक्रमणायां कर्तुमिष्टायाम् । अत्र 'नमोस्तु प्रतिष्ठापनसिद्धभक्तिकायोत्सर्ग करोम्यहमिति, नमोस्तु प्रतिष्ठापनश्रुतभक्तिकायोत्सर्ग करोम्यहमिति, नमोस्तु प्रतिष्ठापनाचार्यभक्तिकायोत्सर्ग करोम्यहमिति चोच्चारणत्रयं बोध्यम् । सिद्धेत्यादि । तत इष्टदेवतानमस्कारपूर्वकं 'समता सर्वभूतेषु' इत्यादि पठित्वा कुर्यात् । कोसौ ? गणी शिष्यसधर्मगणयुक्त आचार्यः । गुरुमिति विभक्तिपरिणामेन संबन्धनीयम् । तेन, गुरुराचार्य इत्यर्थः । के ? सिद्धवृत्तस्तुती। गुर्वीमिति सिद्धवृत्तस्तुती गुाविति वचनपरिणामेन संबन्धः । तेन 'सिद्धानुद्भूतकर्मे'त्यादिकां सिद्धभक्ति, 'साञ्चलिकां येनेन्द्रान्' इत्यादिकां च चारित्रभक्तिम् । न केवलाम्, आलोचनां च । किंविशिष्टाम् ? गुर्वी बृहतीम् । 'इच्छामि भत्ते पक्खियंमि आलोचेर्ड' इत्यादिकां 'जिणगुणसंपत्ति होउ मज्झं' इत्यन्ताम् । क ? अग्रे । कस्य ? देवस्य अर्हद्भट्टारकस्य सैषा सूरेः शिष्यसधर्मणां च साधारणी क्रियाम् । अत्र च सर्वातीचारविशुद्ध्यर्थं पाक्षिकप्रतिक्रमणक्रियायां पूर्वाचार्यानुक्रमेण सकलकर्मक्षयार्थ भावपूजावन्दनास्तवसमेतं सिद्धभक्तिकायोत्सर्ग करोम्यहमिति, सर्वातीचारविशुद्ध्यर्थं आलोचनाचारित्रभक्तिकायोत्सर्ग करोम्यहमिति चोच्चारणद्वयं बोध्यम् । केवलमाचार्यो ‘णमो अरहंताणं' इत्यादि पञ्चपदान्युच्चार्य कायोत्सर्ग कृत्वा 'थोसामि' इत्यादि भणित्वा 'तव सिद्ध' इत्यादिगाथां साञ्चलिका पठित्वा पुनः प्रागुक्तविधिं कृत्वा 'प्रावृदकाले सविद्युत्' इत्यादिकां योगिभक्तिं साञ्चलिकां पठित्वा 'इच्छामि भत्ते चरित्ताचारो तेरसविहो' इत्यादि. दण्डकपञ्चकमधीत्य तथा 'वदसमिदिदिय' इत्यादिकं 'छेदोवट्ठावणं होदु मझ' इत्यन्तं निः पठित्वा स्वदोषान् देवस्थाने आलोचयेत् । दोषानुसारेण प्रायश्चित्तं च गृहीत्वा पञ्चमहाव्रतम् इत्यादिपाठं त्रिभणित्वा योग्यशिध्यादेः प्रायश्चित्तं निवेद्य देवाय गुरुभक्ति दद्यात् । अत्रापि नमोस्तु सर्वातीवारविशुद्ध्यर्थ सिद्धभक्तिकायोत्सर्ग करोम्यह मिति, नमोस्तु सर्वातीचारविशु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy