SearchBrowseAboutContactDonate
Page Preview
Page 663
Loading...
Download File
Download File
Page Text
________________ ६५८ अनगारधर्मामृतेयर्थ आलोचनायोगिभक्तिकायोत्सर्ग करोम्यहमिति च, नमोस्तु निष्ठापनाचार्यभक्तिकायोत्सर्ग करोम्यहमिति चोच्चारणत्रयं क्रमेण बोध्यम् ।। पर इत्यादि । ततः परे पुनः शिष्यसधर्माणः ससूरयः आचार्ययुक्ताः कुर्युः। काम् ? प्रतिक्रान्तिस्तुर्ति प्रतिक्रमणभक्तिं सर्वातीचारविशुद्ध्यर्थं पाक्षिकप्रतिक्रमणक्रियायां पूर्वाचार्यानुक्रमेण सकलकर्मक्षयार्थ भावपूजावन्दनास्तवसमेतं प्रतिक्रमणभक्तिकायोत्सर्ग करोम्यहमित्युच्चार्य 'णमो अरहंताणं' इत्यादिदण्डकं पठित्वा कायोत्सगं विदध्युः । किं कृत्वा ? वन्दित्वा । कम् ? आचार्यम् । कया ? आचार्यभक्त्या । किंविशिष्टया ? लघ्व्या 'श्रुतजलधि' इत्यादिकया । किं कृत्वा ? उपेत्य स्वीकृत्य । किं तत् ? प्रायश्चित्तं प्रत्येकमालोचनं कृत्वा यथादोषं विशुद्धिम् । किं कृत्वा ? कृत्वा । के ? सिद्धयोगिस्तुती । किंविशिष्टे ? लघू । पुनः किं विशिष्ट ? सद्वृत्तालोचने। कस्याने ? सूरेः स्वीकृतप्रायश्चित्तस्याचार्यस्य । लघु. सिद्धभक्त्यादिकं तु साधूनामप्याचार्येण समानं बोध्यम् । चशब्दो भिन्नप्रक्रमो वन्दित्वेत्यतोनन्तरं योज्यः । ततो यथोक्तपरिकर्मानन्तरं गणी आचार्यः 'थोसामि' इत्यादिदण्डकं गणधरवलयं च पठित्वा प्रतिकामेत प्रतिक्रमणदण्डकान् पटेत् । शिष्यसधर्माणस्तु तावत्कालं कायोत्सर्गेण तिष्ठन्तः प्रतिक्रमणदण्डकान् शृणुयुः । अथ अनन्तरं यताः संयताः साधवः ' थोसामि' इत्यादिदण्डकं पठित्वा सूरिणा सहिता "वदसमिदिदियरोधो” इत्यादिकं चाधीत्य वीरस्तुतिं कुर्युः सर्वातीचारविशुद्ध्यर्थं पाक्षिकप्रतिक्रमणक्रियायां पूर्वाचार्यानुक्रमेण सकलकर्मक्षयार्थ भावपूजावन्दनस्तवसमेतं निष्ठितकरणवीरभक्तिकायोत्सर्ग करोग्यहमित्युच्चार्य ‘णमो अरहंताणं' इत्यादिदण्डकं पठित्वा कायोत्सर्गे यथोक्तानुच्छ्वासान् कृत्वा "थोसामि" इत्यादिदण्डकं पठित्वा "चन्द्रप्रभं चन्द्रमरीचिगौरम्" इत्यादिस्वयंभुवं “यः सर्वाणि चराचराणि" इत्यादिवीरभक्तिं साञ्चलिकां पठित्वा "वदसमिदिदियरोधो" इत्यादिकं पठेयुरित्यर्थः। तथा यताः ससूरयः कुर्युः । काम् ? शान्तिचतुर्विंशतिकी. तनाम् सर्वातीचारविशुद्ध्यर्थ शान्तिचतुर्विंशतितीर्थकरभक्तिकायोत्सर्ग करोम्यहमित्युच्चार्य "णमो अरहंताणं" इत्यादिदण्डकं पठित्वा कायमुत्सृज्य “थोसामि" इत्यादिवण्डकमधीय शान्तिकीर्तनां विधाय "रक्षाम्" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy