________________
नवमोऽध्यायः।
६५९
इत्यादिकां चतुर्विंशतिकीर्तनां च "चउवीसं तित्थयरे” इत्यादिकां साञ्चलिकां “वदसमिदिदियरोधो” इत्यादिकं च पठेयुः। तथा सर्वातीचारविशुद्ध्यर्थं चारित्रालोचनाचार्यभक्तिकायोत्सर्ग करोम्यहमित्युच्चार्य यताः ससूरयः कुर्युः। काम् ? सूरिनुतिं चारित्रालोचनाचार्यभक्तिम् । किंविशिष्टाम् ? गुर्वी सिद्धगुणस्तुतीत्यादिकाम् । चारित्रालोचनासहितबृहदाचार्यभक्तिमित्यर्थः। किंविशिष्टाम् ? सवृत्तालोचनां लध्ध्या चारित्रालोचनया सहिताम् । “इच्छामि भत्ते चारित्ताचारो तेरसविहो परिहारविदो" इत्यादि दण्डकसाध्यया लध्व्या चारित्रालोचनया युक्कामित्यर्थः । ततो "वदसमिर्दिदियरोधो" इत्यादिकमुक्त्वा सर्वांतीचारविशुद्ध्यर्थं बृहदालोचनाचार्यभक्तिकायोत्सर्ग करोम्यहमित्युच्चार्य "णमो अरहंताणं" इत्यादि दण्डकादिकं कृत्वा यताः ससूरयः कुर्युः । काम् ? सूरिनुतिं बृहदालोचनाचार्यभक्तिम् । किंविशिष्टाम् ? मध्यां "देसकुलजाइसुद्धा" इत्यादिकाम् । पुनः किंविशिष्टाम्? सगुर्वालोचनां बृहदालोचनासहिताम् । मध्याचार्यभक्तिमित्यर्थः “इच्छामि भत्ते पक्खियम्हि आलोचेउं पण्णारसणं दिवसाणं" इत्यादिकया बृहत्यालोचनया सहितामिति भावः । ततो "वदलमिदिदियरोधो" इत्यादिकमुक्त्वा सर्वातीचारविशुद्ध्यर्थं क्षुल्लकालोचनाचार्यभक्तिकायोत्सर्ग करोम्यहमित्युच्चार्य पूर्ववद्दण्डकादिकं विधाय यताः ससूरयः कुर्युः । काम् ? तां च सूरिनुतिम्। किंविशिष्टाम् ? लध्वीं क्षुल्लकाचार्यभक्तिं "प्राज्ञः प्राप्तसमस्तशास्त्रहृदय" इत्यादिकां श्रुतजलधीत्यादिमोक्षमार्गोपदेशका इत्येवमन्तकाम् । ततः सर्वातीचारविशुद्ध्यर्थ सिद्धचारित्रप्रतिक्रमणनिष्ठितकरणवीरशान्तिचतुर्विंशतितीर्थकरचारित्रालोचनाचार्यबृहदालोचनाचार्यक्षुल्लकालोचनाचार्यभक्तीः कृत्वा तद्धीनाधिकत्वादिदोषविशुद्ध्यर्थ समाधिभक्तिकायोत्सर्ग करोम्यहमित्युच्चार्य पूर्ववद्दण्डकादिकं कृत्वा "शास्त्राभ्यासो जिनपति" इत्यादीष्टप्रार्थनां यताः ससूरयः पठेयुः । ततः सिद्धश्रुताचार्यभक्तिभिराचार्य साधवो वन्देरन् । इति दिङ्मात्रमेतदुपदिष्टम् । प्रौढाचार्यसमीपे यथावत्सविस्तरं दृष्टासामभिरनुष्ठेयम् । उक्तं च
सिद्धचारित्रभक्तिः स्याबृहदालोचना ततः। देवस्य गणिनो वाने सिद्धयोगिस्तुती लघू॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org