________________
अनगारधर्मामृते
चारित्रालोचना कार्या प्रायश्चित्तं ततस्तथा । सूरिभक्त्या ततो लघव्या गणिनं वन्दते यतिः॥ स्यात्प्रतिक्रमणाभक्तिः प्रतिक्रामेत्ततो गणी । वीरस्तुतिर्जिनस्तुत्या सहशान्तिनुतिर्मता॥ वृत्तालोचनया सार्द्ध गुर्वी सूरिनुतिस्ततः। गुर्वालोचनया सार्ध मध्याचार्यानुतिस्तथा ॥ लध्वी सूरिनुतिश्चेति पाक्षिकादौ प्रतिक्रमे । ऊनाधिक्यविशुद्ध्यर्थं सर्वत्र प्रियभक्तिका ॥ चारित्रसारेप्युक्तम्-"पाक्षिकचातुर्मासिकसांवत्सरिकप्रतिक्रमणे सिद्धचारित्रप्रतिक्रमणनिष्ठितकरणचतुर्विंशतितीर्थकरभक्तिचारित्रालोचनागुरुभक्तयो बृहदालोचनागुरुभक्तिर्लघीयस्याचार्यभक्तिश्च करणीयाः" इति ।
परे पुनर्वतारोपणादिविषयाश्चत्वारः प्रतिक्रमाः स्युः । किंविशिष्टाः ? बृहन्मध्यसूरिभक्तिद्वयोज्झिताः । उक्तं च
वृत्तालोचनया सार्ध गुालोचनया क्रमात् ।
सूरिद्वयस्तुतिं मुक्त्वा शेषाः प्रतिक्रमाः क्रमात् ॥ यतीनां श्रावकाणां च श्रुतपञ्चमीक्रियाप्रयोगविधिं श्लोकद्वयेनाहबृहत्या श्रुतपञ्चम्यां भक्त्या सिद्धश्रुतार्थया। श्रुतस्कन्धं प्रतिष्ठाप्य गृहीत्वा वाचनां बृहन् ।। ५७ ॥ क्षम्यो गृहीत्वा स्वाध्यायः कृत्या शान्तिनुतिस्ततः । यमिनां गृहिणां सिद्धश्रुतशान्तिस्तवाः पुनः ५८ (युग्मम्) यमिनां साधूनां क्षम्यो बृहच्छ्रुतभत्त्या निष्ठाप्य इत्यर्थः। कोसौ ? स्वाध्यायः। किंविशिष्टः ? वृहन् । किं कृत्वा ? गृहीत्वा बृहच्छ्रुताचार्यभक्तिभ्यां प्रतिष्ठाप्येत्यर्थः । एतच्च बृहन्निति विशेषणाल्लभ्यते । किं कृत्वा ? गृहीत्वा स्वीकृत्य । काम् ? वाचनां श्रुतावतारोपदेशम् । किं कृत्वा ? प्रतिष्ठाप्य । कम् ? श्रुतस्कन्धम् । कया ? भक्त्या । किंविशिष्टया ? सिद्धश्रुतार्थया सिद्धाः श्रुतं चार्थोऽभिधेयं निमित्तं वा यस्याः सा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org