________________
नवमोऽध्यायः।
६६१
सिद्धश्रुतार्था, तया । पुनः किंविशिष्टया ? बृहत्या बृहत्सिद्धभक्त्या सिद्धानुद्भूतकर्मेत्यादिकया बृहच्छ्रुतभक्त्या च "स्तोष्ये संज्ञानानि" इत्यादिकयेत्यर्थः । कस्याम् ? श्रुतपञ्चम्यां ज्येष्ठशुक्लपञ्चम्याम् । ततो यथोक्तक्रियानन्तरं कृत्या करणीया यमिनाम् । कासौ ? शान्तिनुतिः शान्तिभक्तिः। उक्तं च चारित्रसारे "श्रुतपञ्चम्यां सिद्धश्रुतभक्तिपूर्विकां वाचनां गृहीत्वा तदनु स्वाध्यायं गृह्णतः श्रुतभक्तिमाचार्यभक्तिं च कृत्वा गृहीतस्वाध्यायाः कृतश्रुतभक्तयः स्वाध्यायं निष्ठाप्य समाप्तौ शान्तिभक्तिं कुर्युः " इति ॥ गृहिणां स्वाध्यायाग्राहिणां श्रावकाणां पुनः कृत्याः करणीयाः। के ? सिद्धश्रुतशान्तिस्तवाः सिद्धभक्तिः श्रुतभक्तिः शान्तिभक्तिश्चेत्यर्थः ।
सिद्धान्तादिवाचनाक्रियातिदेशार्थ तदर्थाधिकारविषयकायोत्सर्गोपदेशार्थ श्लोकद्वयमाह
कल्प्यः क्रमोयं सिद्धान्ताचारवाचनयोरपि । एकैकार्थाधिकारान्ते व्युत्सर्गास्तन्मुखान्तयोः ॥ ५९॥ सिद्धश्रुतगणिस्तोत्रं व्युत्सर्गाश्चातिभक्तये । द्वितीयादिदिने षट् षट् प्रदेया वाचनावनौ ॥६०॥युग्मम् ।
अयमनन्तरोक्तः क्रमो विधिः कल्प्यो रचनीयः । कयोः ? सिद्धान्ताचारवाचनयोरपि सिद्धान्तवाचनायामाचारवाचनायां च । न केवलं श्रुतपञ्चम्यामित्यपि शद्वार्थः । सिद्धान्तवाचनां वृद्धव्यवहारादाचारवाचनां वा सिद्धश्रुतभक्तिभ्यां प्रतिष्ठाप्य बृहत्स्वाध्यायं च श्रुताचार्यभक्तिभ्यां प्रतिपद्य तद्वाचना दीयते । ततश्च स्वाध्यायं श्रुतभक्त्या निष्टाप्य शान्तिभक्त्या क्रियां निष्ठापयेदिति भावः । तथा व्युत्सर्गः कायोत्सर्गः, कार्य इत्युपस्कारः । क ? एकैकार्थाधिकारान्ते सिद्धान्तस्यैकस्यार्थाधिकारस्यान्ते पर्यन्ते । उक्तं च चारित्रसारे
" सिद्धान्तस्यार्थाधिकाराणां समाप्तौ एकैकं कायोत्सर्ग कुर्याद् ” इति । तथा कार्यम् । किं तत् ? सिद्धश्रुतगणिस्तोत्रम् । कयोः ? तन्मुखा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org