________________
६६२
अनगारधर्मामृते
न्तयोः तस्यैकैकार्थाधिकारस्यारम्भे समाप्तौ च निमित्तभूते सिद्धभक्तिः श्रुतभक्तिराचार्यभक्तिश्च करणीया इत्यर्थः। तथा व्युत्सर्गाः कार्योत्सर्गाः षट् षट् प्रदेया दातव्याः । क ? वाचनावनौ वाचनाभूमौ । क ? द्वितीयादिदिने । द्वितीयतृतीयादिदिवसे यथाशक्तिकायोत्सर्गा दातव्या इत्यर्थः । वाचनादिने तु तक्रियैव कार्येति भावः। कस्यै ? अतिभक्तयेऽतिमात्रभक्त्यर्थम् । सिद्धान्ताद्यर्थाधिकाराणां सुबहुमान्यत्वादेतदुक्तम् । संन्यासक्रियाप्रयोगविधि श्लोकद्वयेनाहसंन्यासस्य क्रियादौ सा शान्तिभक्त्या विना सह । अन्तेऽन्यदा बृहद्भक्त्या स्वाध्यायस्थापनोज्झने ॥६१॥ योगेपि शेयं तत्रात्तस्वाध्यायैः प्रतिचारकैः । स्वाध्यायाग्राहिणां प्राग्वत् तदाद्यन्तदिने क्रिया ॥ ६२ ॥
सा श्रुतपञ्चम्युक्ता क्रिया, कार्येत्युपस्कारः ! क ? आदी आरम्भे । कस्य ? संन्यासस्य । कथम् ? विना । कया ? शान्तिभक्त्या केवलमत्र सिद्धश्रुतभक्तिभ्याम् । श्रुतस्कन्धवत् संन्यासः प्रतिष्ठाप्य इत्यर्थः। तथा कार्या । कासौ ? सैव क्रिया । कथम् ? सह । कया ? शान्तिभक्त्या । क? अन्ते । कस्य ? संन्यासस्य । क्षपकेतीते संन्यासोनिष्ठाप्य इति भावः । तथा कार्ये । के ? स्वाध्यायस्थापनोज्झने स्वाध्यायस्य प्रतिष्ठापन निष्ठापनं चेत्यर्थः । कया ? बृहद्भक्त्या बृहच्छ्रतभक्त्या बृहदाचार्यभक्त्या च स्वाध्यायः प्रतिष्ठाप्यो बृहच्छ्रुतभक्त्या च निष्ठाप्य इत्यर्थः । क ? अन्यदा आद्यन्तदिनाभ्यामन्येषु दिनेषु । तथा शेयं शेतव्यम् । कैः ? प्रतिचारकैः क्षपकशुश्रूषकैः क ? तत्र संन्यासवसतौ। किंविशिष्टैः ? आत्तस्वाध्यायः प्रथमदिने तत्र प्रतिष्ठापितस्वाध्यायैः । क ? योगेपि रात्रियोगे वर्षायोगेपि वा, अन्यत्र गृहीतेपि सति । तथा कार्या । कासौ ? क्रिया। केषाम् ? स्वाध्यायाग्राहिणाम् । व? तदाधन्तदिने। किंवत् ? प्राग्वत् श्रुतपञ्चमीवत् । संन्यासस्यारम्भदिने समाप्तिदिने च सिद्धश्रुतशान्तिभक्तिभिर्गहस्थैः क्रिया कार्येति भावः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org