________________
नवमोऽध्यायः।
६६३
अष्टान्हिकक्रियानिर्णयार्थमाहकुर्वन्तु सिद्धनन्दीश्वरगुरुशान्तिस्तवैः क्रियामष्टौ । शुच्यूर्जतपस्यसिताष्टम्यादिदिनानि मध्याह्ने ॥ ६३ ॥ कुर्वन्तु इत्यत्र बहुत्वनिदेशः संभूय संधेनैषा क्रिया कार्यति ज्ञापनार्थः । कुर्वन्तु मिलित्वाचार्यादयो विदधतु । काम् ? क्रियाम् । कैः ? सिद्धनन्दीश्वरगुरुशान्तिस्तवैः सिद्धभक्त्या नन्दीश्वरचैत्यभक्त्या पञ्चगुरुभक्या शान्तिभक्त्या चेत्यर्थः । कानि ? शुच्यूर्जतपस्यसिताष्टम्यादिदिनानि । कति ? अष्टौ । क ? मध्याह्ने पौर्वाह्निकस्वाध्यायग्रहणानन्तरम् । अष्टमी आदिर्येषां नवम्यादितिथीनां तान्यष्टम्यादीनि । तानि च तानि दिनानि चाष्टम्यादिदिनानि । शुचिराषाढः । ऊर्जः कार्तिकः । तपस्यः फाल्गुनः । शुचिश्वोर्जश्व तपस्यश्च शुच्यूर्जतपस्याः। तेषां सिताः शुक्लपक्षाः शुच्यूर्जतपस्यसिताः तेषामष्टम्यादिदिनानि शुच्यूर्जतपस्यसिताष्टम्यादिदिनानि । आषाढस्याष्टौ दिनानि सितपक्षेऽष्टम्या आरभ्य पौर्णमासी यावत् क्रियां कुर्वन्तु । एवं कार्तिकफाल्गुनयोरपि योज्यम् । अभिषेकवन्दनाक्रियां मङ्गलगोचरक्रियां च लक्षयतिसा नन्दीश्वरपदकृतचैत्या त्वभिषेकवन्दनास्ति तथा । मङ्गलगोचरमध्याह्नवन्दना योगयोजनोज्झनयोः ॥६४ ॥
सा तु सैव नन्दीश्वरक्रिया अभिषेकवन्दनास्ति जिनमहास्नपनदिवसे वन्दना भवति । कीदृशी? नन्दीश्वरपदकृतचैत्या नन्दीश्वरस्थानपठितचैत्या। तथा सैवाभिषेकवन्दना भवति । कासौ? मङ्गलगोचरमध्याह्नवन्दना ।कयोः ? योगयोजनोज्झनयोर्वयोगग्रहणविसर्जनयोः । मङ्गलगोचरे मङ्गलार्थगोचारे मध्याह्नवन्दना मङ्गलगोचरमध्याह्नवन्दना । उक्तं च
अहिसेयं वंदणासिद्धचेदिपंचगुरुसंतिभत्तीहि । कीरइ मंगलगोयर मज्झंण्हियवंदणा होइ ॥ १ अभिषेकवन्दनासिद्ध चैत्यपञ्चगुरुशान्तिभक्तिभिः । क्रियते मङ्गलगोचरमध्याह्निकवन्दना भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org