________________
अनगारधर्मामृते--
मङ्गलगोचरबृहत्प्रत्याख्यान विधिमाहलात्वा बृहत्सिद्धयोगिस्तुत्या मङ्गलगोचरे । प्रत्याख्यानं बृहत्सरिशान्तिभक्ती प्रयुञ्जताम् ॥ ६५ ॥ प्रयुञ्जतां प्रयोजयन्तु आचार्यादयः । के ? बृहत्सूरिशान्तिभक्ती बृह. तीमाचार्यभक्तिं बृहतीं च शान्तिभक्तिम् । किं कृत्वा ? लात्वा गृहीत्वा । किं तत् ? प्रत्याख्यानं भक्तप्रत्याख्यानम् । क ? मङ्गलगोचरे । कया ? बृहत्सिद्धयोगिस्तुत्या बृहत्या सिद्धभक्त्या बृहत्या च योगिभक्त्या । प्रयुअतामित्यत्र बहुत्वनिर्देशः समिलित्वा कार्योयं विधिरिति बोधयति ॥ वर्षायोगग्रहणमोक्षविध्युपदेशार्थ श्लोकद्वयमाहततश्चतुर्दशीपूर्वरात्रे सिद्धमुनिस्तुती । चतुर्दिक्षु परीत्याल्पाश्चैत्यभक्तीगुरुस्तुतिम् ॥६६॥ शान्तिभक्तिं च कुर्वाणैर्वयोगस्तु गृह्यताम् । ऊर्जकृष्णचतुर्दश्यां पश्चाद्रात्रौ च मुच्यताम् ॥६७॥ युग्मम् । ततः प्रत्याख्यानप्रयोगविध्यनन्तरं गृह्यतां प्रतिष्ठाप्यताम्। कोसौ ? वर्षायोगः।कैः ? आचार्या दिश्रमणैः । किं कुर्वाणैः ? कुर्वाणैः साधुत्वेन कुर्वद्भिः। के ? सिद्धमुनिस्तुती सिद्धभक्तिं योगिभक्तिं च । क ? चतुर्दशीपूर्वरात्रे आषाढशुक्लचतुर्दश्या रात्रेः प्रथमप्रहरोद्देशे न केवलं, चैत्यभक्तीश्च कुर्वाणैः । किंविशिष्टाः ? अल्पा लध्वीः । अर्थाच्चतस्रः। कया? परीत्या प्रदक्षिणया। कासु ? चतुर्दिक्षु चतसृषु पूर्वादिककुप्सु । तद्यथा । “यावन्ति जिनचैत्यानि" इत्यादिश्लोकं पठित्वा वृषभाजितस्वयंभूस्तवद्वयमुच्चार्य चैत्यभक्तिं साञ्चलिकां पठेत् । इति पूर्वदिक्चैत्यालयवन्दना । एवं दक्षिणादिदिकूत्रयेपि नवरमुत्तरोत्तरौ द्वौ द्वौ स्वयंभूस्तवी प्रयोक्तव्यौ । चतुर्दिक्षु भावेनैव प्रदक्षिणा कार्या स्थानस्थैरेव च योगतण्डुलाः प्रक्षेप्तव्या इति वृद्धव्यवहारः । न केवलं, गुरुस्तुतिं च पञ्चगुरुभक्ति, न केवलं, शान्तिभक्तिं च कुर्वाणैः । तुर्विशेषे । तथा मुच्यतां च निष्ठाप्यतां वर्षायोगः श्रमणैस्तेनैव विधानेन । क ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org