________________
नवमोऽध्यायः।
६६५ पश्चादात्री पश्चिमयामोद्देशे । कस्याम् ? ऊर्जकृष्णचतुर्दश्यां कार्तिकस्य कृष्णचतुर्दशीतिथौ । तच्छेषविधिं श्लोकद्वयेनाहमासं वासोन्यदैकत्र योगक्षेत्रं शुचौ व्रजेत् । मार्गेतीते त्यजेच्चार्थवशादपि न लङ्घयेत् ॥ ६८॥ नभश्चतुर्थी तद्याने कृष्णां शुक्लोर्जपञ्चमीम् । यावन्न गच्छेत्तच्छेदे कथंचिच्छेदमाचरेत् ॥ ६९ ॥(युग्मम्) वासो निवासः श्रमणैः कर्तव्य इति शेषः । कियन्तं कालम् ? मासम् । क? अन्यदा हेमन्तादिऋतुषु।क्क ? एकत्रैकस्मिन्स्थाने नगरादौ? तथा ब्रजेद् गच्छेत् श्रमणसंघः । कम् ? योगक्षेत्रं वर्षायोगस्थानम् । क ? शुचौ आषाढे । त्यजेञ्च श्रमणगणः । किं तत् ? योगक्षेत्रम् । क ? मार्गे मार्गशीर्षे मासि । किंविशिष्टे ? अतीतेऽतिक्रान्ते । तथा न लङ्घयेन्नातिक्रामेत् । काम् ? नभश्चतुर्थी श्रावणस्य चतुर्थतिथिम् ? किंविशिष्टाम् ? कृष्णामसिताम् । क ? तद्याने योगक्षेत्रगमने । कस्मात् ? अर्थवशादपि प्रयोजनवशेनापि । तथा साधुसंघो न गच्छेत् स्थानान्तरे न विहरेदर्थवशादपि । कथम् ? शुक्लोर्जपञ्चमी यावत् सितां कार्तिकपञ्चमी तिथिमवधीकृत्य । तथा साधुसंघः छेदं प्रायश्चित्तमाचरेदनुतिष्ठेत् । क्व सति । तच्छेदे यथोक्तयोगप्रयोगातिक्रमे । कथंचिद्दुर्निवारोपसर्गादिना। वीरनिर्वाणक्रियानिर्णयार्थमाहयोगान्तेऽर्कोदये सिद्धनिर्वाणगुरुशान्तयः । प्रणुत्या वीरनिर्वाणे कृत्यातो नित्यवन्दना ॥७०॥
प्रणुत्याः स्तोतव्याः । के ? सिद्धनिर्वाणगुरुशान्तयः । क्व ? वीरनिर्वाणे श्रीवर्धमाननिर्वाणक्रियायाम् । क ? अर्कोदये आदित्यस्योद्गमे । क सति ? योगान्ते वर्षायोगनिष्ठापने कृते सति । सिद्धभक्त्या निर्वाण
१ कार्तिकासितचतुर्दशी तिथौ' इति पाठः श्रेयान् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org