SearchBrowseAboutContactDonate
Page Preview
Page 657
Loading...
Download File
Download File
Page Text
________________ ६५२ अनगारधर्मामृते कुर्यात्साधुः । कम् ? स्वाध्यायम् । कीदृशः ? सप्रतिलेखनमुकुलितवत्सोत्सङ्गितकरः सप्रतिलेखनौ प्रतिलेखनयुक्तौ मुकुलितावऽञ्जली कुड्मलितौ वत्सोत्साङ्गितौ वक्षोमध्यस्थापितौ करौ हस्ती येन स एवम् । पुनः कीदृशः ? सपर्यङ्कः । सह पर्यङ्केन पर्यङ्कासनेन वर्तते इति सपर्यङ्कः । उपलक्षणाद्वीरासनादियुक्तोपि । पुनरपि कीदृशः ? एकाग्रमना अनन्य. परान्तःकरणः । उक्तं च पलियंकणिसेजगदो पडिलेहिय अञ्जलीकदपणामो। सुत्तत्थजोगजुत्तो पढिव्वो आदसत्तीए ॥ अपि चमनो बोधाधीनं विनयविनियुक्तं निजवपु,वैचः पाठायत्तं करणगणमाधाय नियतम् । दधानः स्वाध्यायं कृतपरिणति नवचने, करोत्यात्मा कर्मक्षयमिति समाध्यन्तरमिदम् ॥ साधुः पुनर्वन्दनां यथोक्तविशेषणविशिष्टः कुर्यात् । कया ? अशक्त्या । उदो यदि वन्दितुं न शक्यादित्यर्थः । प्रतिक्रमेण योगग्रहणे तन्मो. क्षणे च कालविशेषो व्यवहारानुसारादेव पूर्वोक्तः प्रतिपत्तव्यः ॥ धर्मकार्यादिव्यासङ्गेन ततोन्यदापि तद्विधाने दोषाभावादित्युपदेशार्थमाह योगप्रतिक्रमविधिः प्रागुक्तो व्यावहारिकः । कालक्रमनियामोत्र न स्वाध्यायादिवद्यतः॥४४॥ उक्तः। कोसौ ? योगप्रतिक्रमविधिः, रात्रियोगस्य प्रतिक्रमणस्य च विधानम् । किंविशिष्टः ? व्यावहारिको व्यवहाररूपः । कथम् ? प्राक पूर्वम् । यतो यस्मानास्ति । कोसौ ? कालक्रमनियामः समयानुपूर्वीनियमः। क ? अत्र योगप्रतिक्रमविधौ । किंवत् ? स्वाध्यायादिवत् १ पल्यङ्कनिषद्यागतः प्रतिलेख्याञ्जलीकृतप्रणामः । सूत्रार्थयोगयुक्तः पठितव्य आत्मशक्त्या ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy