________________
नवमोऽध्यायः ।
६५१
यतैः संयतैर्गणी सूरिर्वन्द्यः । किं कृत्वा ? गृहीत्वा । कम् ? योगं रात्रियोगम् । किं कृत्वा ? कृत्त्वा । कम् ? प्रतिक्रमम् । किंविशिष्टम् ? आह्निकम् । किं कृत्वा ? निष्ठाप्य । कम् ? तं स्वाध्यायम् । क ? अह्नि दिने । किंविशिष्टे ? नाडीद्वयावशेषे दिनान्ततृतीयघटिकायां प्रवर्तमानायामित्यर्थः । चः समुच्चये ।
आचार्यवन्दनानन्तरविधेयं देववन्दनादिविधिमाह
स्तुत्वा देवमथारभ्य प्रदोषे सद्विनाडिके | मुञ्चेनिशीथे स्वाध्यायं प्रागेव घटिकाद्वयात् ॥ ४१ ॥
अथ अनन्तरं सांधुर्देवं स्तुत्वा प्रदोषे रजनीमुखे सद्विनाडिके टकाद्वयाधिक प्रवृत्ते सति स्वाध्यायमारभ्य प्रतिष्ठाप्य मुञ्चेन्निष्टापयेत् स्वाध्यायम् । क : निशीथेऽर्धरात्रे । कथम् ? प्रागेव पूर्वमेव । कस्मात् ? घटिकाद्वयात् ॥
रात्रौ निष्ठापित स्वाध्यायस्य निद्राजयोपायमाहज्ञानाद्याराधनानन्दसान्द्रः संसारभी रुकः ।
शोचमानोऽर्जितं चैनो जयेन्निद्रां जिताशनः ॥ ४२ ॥ जयेन्निगृह्णीयात्साधुः । काम् ? निद्राम् । किंविशिष्टः सन् ? जिताशन आहारेणाग्लापितः । दन्त्यसकारे वा पाठः । तत्र पर्यङ्काद्यासनेनासंजातवेद इत्यर्थः । कथंभूतो भूत्वा ? ज्ञानाद्याराधनानन्दसान्द्रः ज्ञानादीनां ज्ञानश्रद्धानचारित्रतपसामाराधनाज्जात आनन्दः प्रमोदः सान्द्रो घनो निरन्तरप्रवृत्तो यस्य स एवम् । तथा संसारभीरुकः । संविग्न इत्यर्थः । तथा शोचमानस्ताच्छील्येन शोचन् । किं तत् ? एनः पापम् । किंविशिउम् ? अर्जितं पुराकृतम् । च समुच्चये । उक्तं चज्ञानाद्याराधने प्रीतिं भयं संसारदुःखतः । पापे पूर्वार्जिते शोकं निद्रां जेतुं सदा कुरु ॥ स्वाध्याय करणेऽशक्तस्य च देववन्दनाकरणे विधानमाह -
सप्रतिलेखनमुकुलितवत्सोत्सङ्गितकरः सपर्यङ्कः । कुर्यादेकाग्रमनाः स्वाध्यायं वन्दनां पुनरशक्त्या ॥ ४३ ॥
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only