________________
६५०
अनगारधर्मामृते
सिद्धभक्त्योपवासश्च प्रत्याख्यानं च मुच्यते । लन्यैव भोजनस्यादौ भोजनान्ते च गृह्यते ॥ सिद्धयोगिलघुभक्त्या प्रत्याख्यानादि गृह्यते ।
लव्या तु सूरिभक्त्यैव सूरिर्वन्द्योथ साधुना ॥ सद्यः प्रत्याख्यानाग्रहणे दोषमल्पकालमपि तहणे च गुणं दर्शयतिप्रत्याख्यानं विना दैवात् क्षीणायुः स्याद्विराधकः । तदल्पकालमप्यल्पमप्यर्थपृथु चण्डवत् ॥ ३८॥ स्यात्साधुः । किं विशिष्टः ? विराधको रत्नत्रयाराघको न भवेदित्यर्थः । किंविशिष्टः सन् ? क्षीणायुस्युटितजीवितः । कस्मात् ? दैवात् प्रारबद्धायुःकर्मवशात् । कथम् ? विना । किं तत् ? प्रत्याख्यानम् । तत्प्रत्याख्यानं पुनरर्थपृथु फलेन बहु स्यात् । किंविशिष्टमपि ? अल्पकाल. मपि । अल्पः कालो यस्य तत् । तथाऽल्पमपि स्तोकमपि । किं पुनश्चिरकालं प्रभूतं चेत्यपिशब्दार्थः । किंवत् ? चण्डवत् । चण्डनाम्नो मातङ्गस्य चर्मवरत्रानिर्मातुः क्षणं मांसमात्रनिवृत्तस्य यथा । उक्तं च
चण्डोऽवन्तिषु मातङ्गः किल मांसनिवृत्तितः।
अप्यल्पकालभाविन्याः प्रपेदे यक्षमुख्यताम् ॥ प्रत्याख्यानादिग्रहणानन्तरकरणीयं गोचारप्रतिक्रमणादिविधिमाह-- प्रतिक्रम्याथ गोचारदोपं नाडीद्वयाधिके । मध्यान्हे प्रालवद्वत्ते स्वाध्यायं विधिवद्भजेत् ॥३९॥ अथ प्रत्याख्यानादिग्रहणानन्तरं साधुः प्रतिक्रम्य विशोध्य । कम् ? गोचारदोषं गोवद्रोजनस्यातिचारं स्वाध्यायं विधिवद्भजेत् । क सति? मध्यान्हे। किंविशिष्टे नाडीद्वयाधिके । पुनः किंविशिष्टे ? वृत्तेऽ तिकान्ते सति । किंवत् ? प्राह्नवत् पूर्वाह्ने यथा ।
स्वाध्यायनिष्ठापनानन्तरकरणीयं दैवसिकप्रतिक्रमणादिविधिमाहनाडीद्वयावशेषेति तं निष्ठाप्य प्रतिक्रमम् । कृत्वाह्निकं गृहीत्वा च योगं वन्द्यो यतैर्गणी ॥४०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org