________________
नवमोऽध्यायः ।
६४९
अप्रतिपन्नोपवासस्य भिक्षोर्मध्याह्नकृत्यमाहप्राणयात्राचिकीर्षायां प्रत्याख्यानमुपोषितम् । न वा निष्ठाप्य विधिवद्भुक्त्वा भूयः प्रतिष्ठयेत् ॥ ३६॥ प्रतिष्ठयेत् प्रत्याख्यानमुपोषितं वा यथासामर्थ्यमात्मनि स्थापयेत्साधुः। कथम् ? भूयः पुनः । किं कृत्वा ? भुक्त्वा भोजनं कृत्वा । किंवत् ? विधिवत् शास्त्रोक्तविधानेन । किं कृत्वा ? निष्ठाप्य पूर्वदिने प्रतिपन्नं क्षमयित्वा विधिवदेव । किं तत् ? प्रत्याख्यानम् । न केवलम्, उपोषितं नवा उपवासं वा। कस्यां सत्याम् ? प्राणयात्राचिकीर्षायां भोजनकरणेच्छायां जातायाम् ॥
प्रत्याख्यानादिनिष्ठापनप्रतिष्ठापनयोस्तत्प्रतिष्ठापनानन्तरमाचार्यवन्दनायाश्व प्रयोगविधिमाहहेयं लघ्व्या सिद्धभक्त्याशनादौ, प्रत्याख्यानाद्याशु चादेयमन्ते । सूरौ तादृग्योगिभक्त्यग्रया तद्, ग्राह्यं वन्द्यः मूरिभक्त्या स लघ्व्या ॥३७॥
हेयं त्याज्यं साधुना। निष्टाप्यमित्यर्थः । किं तत् ? प्रत्याख्यानादि प्रत्याख्यानमुपोषितं वा । क ? अशनादौ भोजनारम्भे । कया ? सिद्धभक्त्या। किंविशिष्टया ? लव्या । न केवलम्, आदेयं च लध्व्या सिद्धभक्त्या प्रतिष्ठाप्यं साधुना । किं तत् ? प्रत्याख्यानादि । क ? अन्ते प्रक्रमाशोजनस्यैव प्रान्ते । कथम् ? आशु शीघं भोजनानन्तरमेव । आचार्यासन्निधावेतद्विधेयं सूरौ आचार्यसमीपे पुनर्ग्राह्यं प्रतिष्ठाप्यं साधुना । किं तत् ? तत् प्रत्याख्यानादि । कया ? लघ्व्या सिद्धभक्त्या । किंविशिष्टया ? तादृग्योगिभक्त्यग्रया लघुयोगिभक्त्यधिकया । तादृग्लध्वी योगिभक्तिस्तादृग्योगिभक्तिः । तयाग्रा अधिका तादृग्योगिभक्त्यमा, तया। तथा वन्द्यः साधुना । कोसौ ? स सूरिः । कया ? सूरिभक्त्या । किंविशिष्टया? लघव्या । उक्तं च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org