SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ ६४८ अनगारधर्मामृते— ज्येष्ठयतिवन्दनानुभावं भावयति येऽनन्यसामान्यगुणाः प्रीणन्ति जगदञ्जसा । तान्महन्महतः साधुनिहामुत्र महीयते ॥ ३३ ॥ महीयते पूज्यो भवति । कोसौ ? साधुः । क ? इहास्मिञ्जन्मनि । न केवलम्, अमुत्र च परजन्मनि । किं कुर्वन् ? महन् पूजयन् । कान् ? तान् । किंविशिष्टान् ? महतो दीक्षाज्येष्ठा निन्द्रादिपूज्यान्वा । ये किम् ? येऽनन्यसामान्यगुणाः पराऽसाधारणगुणाः साधवः प्रीणन्ति तर्पयन्ति । किं तत् ? जगत् विश्वम् । कथम् ? अञ्जसा परमार्थेन । प्राभातिककृत्योत्तरकरणीयमाह प्रवृत्त्यैवं दिनादौ द्वे नाड्यौ यावद्यथाबलम् | नाडीद्वयोनमध्याह्नं यावत्स्वाध्यायमावहेत् || ३४ ॥ आवहेत् कुर्यात्साधुः । कम् ? स्वाध्यायम् । कथम् ? नाडीद्वयोनमध्याह्नं यावद् घटिकायुग्मन्यून मध्यन्दिनावधि । कथम् ? यथाचलम् । किं कृत्वा ? प्रवृत्त्य देववन्दनादिकं कृत्वा । कथम् ? एवमुक्तनया | क ? दिनादौ प्रभाते । कथम् ? द्वे नाड्यौ यावद् घटिकाइयावधि ॥ निष्ठापित स्वाध्यायस्य मुनेः प्रतिपन्नोपवासस्यास्वाध्यायकाले करणीयसुपदिशति ततो देवगुरू स्तुत्वा ध्यानं वाराधनादि वा । शास्त्रं जपं वाsस्वाध्यायकालेभ्यसे दुपोषितः ॥ ३५ ॥ ततः पौर्वाह्निकस्वाध्याय निष्ठापनानन्तरमुपोषितः प्रतिपन्नोपवासः साधुरस्वाध्यायकालेऽभ्यसेद् भावयेत् । किं तत् ? ध्यानं वाराधनादि शास्त्र वा जपं वा पञ्चनमस्कारादिजप्यम् । किं कृत्वा ? स्तुत्वा वन्दित्वा । कौ ? देवगुरू देवमर्हद्भहारकं गुरुं च धर्माचार्यम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy