________________
नवमोऽध्यायः ।
प्राभातिक देववन्दनानन्तरकरणीयामाचार्यादिवन्दनामुपदिशतिलव्या सिद्वगणिस्तुत्या गणी वन्द्यो गवासनात् । सैद्धान्तोन्तः श्रुतस्तुत्या तथान्यस्तन्नुतिं विना ॥ ३१ ॥
वन्द्यो गणी आचार्यः साधुभिः । कया ? सिद्धगणिस्तुत्या सिद्धभ क्त्याचार्य भक्त्या चेत्यर्थः । किंविशिष्टया ? लघ्व्या । कस्मात् ? गवासनात् वासने उपविश्य । तथा सैद्धान्तः सिद्धान्तविद्वणी साधुभिर्वन्द्यः । कया ? लव्या सिद्धगणिस्तुत्या । किंविशिष्टया ? अन्तःश्रुतस्तुत्या अन्तमध्ये कृता श्रुतस्तुतिर्यस्याः सिद्धगणिस्तुतेः सा अन्तः श्रुतस्तुतिस्तया । लघ्वीभिः सिद्धश्रुताचार्यभक्तिभिस्तिसृभिरित्यर्थः । तथान्य आचार्यादपरो यतिः साधुभिर्गवासनाद्वन्द्यः । कथम् ? विना । काम् ? तन्नुतिमाचार्यभक्तिम् । लघुसिद्धभक्त्या वन्द्य इत्यर्थः । स एव च सैद्धान्तो लघुसिद्धश्रुतभक्तिभ्यां वन्द्य इत्यर्थः । उक्तं च
६४७
सिद्धभक्त्या बृहत्साधुर्वन्द्यते लघु साधुना । लघ्या सिद्धश्रुतस्तुत्या सैद्धान्तः प्रप्रणम्यते ॥ सिद्धाचार्यलघुस्तुत्या वन्द्यते साधुभिर्गणी । सिद्धश्रुतगणिस्तुत्या लध्या सिद्धान्त विद्वणी ॥ धर्माचार्य पर्युपास्तिमाहात्म्यं स्तुवन्नाहयत्पादच्छायमुच्छिद्य सद्यो जन्मपथक्लमम् । वर्वष्टि निर्वृतिसुधां सूरिः सेव्यो न केन सः ॥ ३२ ॥
स सूरिराचार्यः केन मुमुक्षुणा न सेव्यः । सर्वेणापि भक्तव्य इत्यर्थः । यत्पादच्छायं यस्य सूरेः पादच्छाया पादानामाश्रयणम् । 'छाया बहूना - मिति समासः । वर्वष्टि भृशं पुनः पुनर्वा वर्षति । काम् ? निर्वृतिसुधाम् । निर्वृतिः कृतकृत्यतासंतोषः सैव सुधा अमृतम् । किं कृत्वा ? उच्छिद्य उन्मूल्य | कम् ? जन्मपथक्कुमं संसारमार्गग्लानिम् । कथम् ? सद्य आश्रयगान्तरमेव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org