________________
६४६
अनगारधर्मामृते
आत्मध्यानमन्तरेण केनचिन्मोक्षो न स्यादित्युपदिशतिनात्मध्यानाद्विना किंचिन्मुमुक्षोः कर्महीष्टकृत् । किंत्वस्त्रपरिकमेव स्यात् कुण्ठस्याततायिनि ।। २९॥ हि यस्मान्न किंचित्कर्म क्रिया च भवति । किंविशिष्टम् ? इष्टकृन्मोक्षसाधकम् । कस्य ? मुमुक्षोर्मोक्तुमिच्छोः साधोः । कथम् ? विना । कस्मात् ? आत्मध्यानात् । आत्मध्यानमेव मुमुक्षोर्मोक्षसाधकं भवेदित्यर्थः । तर्हि कर्मान्तरं किं कुर्यादित्याह-किं तु स्यात् । किं तत् ? आत्मध्यानवर्ज मुमुक्षोः कर्म । किमिव ? अस्त्रपरिकर्मेव शस्त्राभ्यासो यथा। कस्य ? कुण्ठस्य क्रियामन्दस्य । क विषये ? आततायिनि हन्तुमुद्यते शत्रौ । उक्तं च
मन्नाः कर्मनयावलम्बनपरा ज्ञानं न जानन्ति यद् मन्ना ज्ञाननयैषिणोपि यदतिस्वच्छन्दमन्दोद्यमाः। विश्वस्योपरि ते तरन्ति सततं ज्ञानं भजन्तः स्वयं,
ये कुर्वन्ति न कर्म जातु न वशं यान्ति प्रमादस्य च ।। समाधिमहिम्नोऽशक्यस्तवनत्वमभिधत्तेयः सूते परमानन्दं भूर्भुवःस्वर्भुजामपि । काम्यं समाधिः कस्तस्य क्षमो माहात्म्यवर्णने ॥ ३० ॥
कः क्षमो भवति, न कोपि । क ? माहात्म्यवर्णने महिमस्तवने । कस्य ? तस्य समाधेः । यः किम् ? यः समाधिः सूते जनयति । कम् ? परमानन्दं परमप्रसत्तिलक्षणं प्रमोदम् । किंविशिष्टम् ? काम्यं स्पृहणीयम् । केषाम् ? भूर्भुवःस्वर्भुजामपि अधोमध्यो लोकपतीनाम् । किं पुनरितरजनानामित्यपिशब्दार्थः । भूरधोलोकः । भुवर्मध्यलोकः । स्वरूवलोकः । भूश्च भुवश्च स्वश्च भूर्भुवःस्वः पातालमर्त्यलोकस्वर्गलोकम् । तद्भुञ्जन्ति पालयन्ति भुञ्जते वा तत्फलमनुभवन्ति भूर्भुवःस्वर्भुजस्तेषाम् । उक्तं च
अनाधिव्याधिसंबाधममन्दानन्दकारणम् । न किंचिदन्यदस्तीह समाधेः सदृशं सखे ॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org