________________
नवमोऽध्यायः ।
६४५
रेण कर्तुर्यदृच्छया । कस्मारिक्रयमाणा ? गुणानुरागाद् भावविशुद्धिमाश्रित्य ॥
कायोत्सर्गानन्तरकृत्यं श्लोकद्वयेनाहप्रोच्य प्राग्वत्ततः साम्यस्वामिनां स्तोत्रदण्डकम् । वन्दनामुद्रया स्तुत्वा चैत्यानि त्रिप्रदक्षिणम् ॥ २७ ॥ आलोच्य पूर्ववत्पश्चगुरून् नुत्वा स्थितस्तथा। समाधिभक्त्याऽस्तमलः स्वस्य ध्यायेद्यथाबलम् ॥२८॥ (युग्मम्)
ध्यायेत्साधुः । कस्य ? स्वस्य आत्मनः । आत्मध्यानं विदध्यादित्यर्थः । कथम् ? यथावलं यथाशक्ति । कथंभूतो भूत्वा ? समाधिभक्त्यास्तमल: समाधिभक्त्या अस्ता निराकृता मला वन्दनातिचारा येन स एवम् । किं कृत्वा ? नुत्वा । कान् ? पञ्चगुरूनहदादीन् । वन्दनामुद्रयेत्यत्रापि योज्यम् । कथम् ? तथा तेन "विज्ञाप्य क्रियाम्" इत्यादिप्रबन्धोक्तेन प्रकारेण । कथं भूतो भूत्वा ? स्थितः उद्भश्चैत्यभक्तिवदत्र प्रदक्षिणानभ्युपगमात् । किं कृत्वा ? आलोच्य "इच्छानि भत्ते चेइयभत्ति काउस्सग्गो कओ" इत्यादिना । किंवत् ? पूर्ववत् आनम्रकांऽघ्रिदोरित्यर्थः । पञ्चगुरून्नत्वा स्थितस्तथेत्यत्रापि आलोच्य पूर्ववदित्येतत्संबन्धनीयम् । तत्र "इच्छामि भत्ते पंचगुरुभत्ति काउस्सग्गो कओ तस्स आलोचेउ । अहमहापाहिहेरसंजुत्ताणं अरहंताणं" इत्यादिकामालोचनां कुर्यादित्यर्थः। किं कृत्वा ? स्तुत्वा वन्दित्वा । कानि ? चैत्यानि । कया ? वन्दनामुद्रया प्रागुक्तलक्षणया । कथं कृत्वा ? त्रिप्रदक्षिणम् । तिस्रः प्रदक्षिणा यत्र चैत्यस्तवनकर्मणि तदेवम् । किं कृत्वा ? प्रोच्य प्रकर्षेण भक्तिभरनिर्भरत्वलक्षणेनोक्त्वा । किं तत् ? स्तोत्रदण्डक “थोसामि" इत्यादिकम् । केषाम् ?साम्यस्वामिनाम् सामायिकप्रयोक्तॄणां चतुर्विंशतितीर्थकराणाम् । किंवत् ? प्राग्वत् पूर्ववद् “ विग्रहं प्रह्वीकृत्य " इत्यादिविधिना । कथम् ? ततश्चैत्यभक्तिकायोत्सर्गकरणानन्तरम् ।
१ इच्छामि भक्तौ पंचगुरुभक्तिः कायोत्सर्गः कृतः । तस्यालोचये अष्टमहाप्रातिहार्यसंयुक्तानामर्हताम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org