SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ ६४४ मनुरप्याह - अनगारधर्मामृते— विधियज्ञाजपयज्ञो विशिष्टो दशभिर्गुणैः । उपांशु स्याच्छतगुणैः साहस्रो मानसः स्मृतः ॥ पञ्चनमस्कारमाहात्म्यं श्रद्धानोद्दीपनार्थमनुवदतिअपराजितमन्त्रो वै सर्वविघ्नविनाशनः । मङ्गलेषु च सर्वेषु प्रथमं मङ्गलं मतः ॥ २५ ॥ वै स्फुटमपराजितमन्त्रो मत इष्टः शिष्टैः । किंबिशिष्टः ? सर्वविघ्नविनाशनः सर्वेषां प्रत्यूहानां प्रध्वंसकः । न केवलं, प्रथमं मुरख्यं मङ्गलं च मतः । केषु मध्ये ? मङ्गलेषु मलगालनोपायेषु पुण्यदानोपायेषु च । किंविशिष्टेषु ? सर्वेषु । उक्तं च एसो पंचणमोकारो सव्वपावप्पणासणो । मंगलाणं च सव्वेसिं पढमं होइ मङ्गलं ॥ I एकैकस्यापि परमेष्टिनो विनयकर्मणि लोकोत्तरं महिमानमावेदयतिनेष्टं विहन्तुं शुभभावभग्नरसप्रकर्षः प्रभुरन्तरायः । तत्कामचारेण गुणानुरागान्नुत्यादिरिष्टार्थकृद र्हदादेः॥२६॥ प्रभुः समर्थो न भवति । कोसौ ? अन्तरायोऽन्तरायाख्यकर्म । किं कर्तुम् ? विहन्तुं विघ्नयितुम् । किं तत् ? इष्टं वाञ्छितं वस्तु । किंविशिष्टः सन् ? शुभभावभग्नरसप्रकर्षः रसस्य विपाकस्य प्रकर्ष इष्टघातनसामर्थ्य रसप्रकर्षः । शुभभावेन प्रशस्तपरिणामेन चित्तप्रसत्तिलक्षणेन भग्नः प्रध्वंसितो रसप्रकर्षो यस्य स तथोक्तः । तत् तस्माद्भवति । कासौ ? नुत्यादिः प्रणामस्तवनाशीर्जयवादादिलक्षणा वन्दना । किंविशिष्टा ? इष्टार्थकृत् समीहितप्रयोजनसाधनी । कस्य ? अर्हदादे जिनेन्द्र सिद्धप्रभृतेः । केन ? कामचा १ एष पञ्चनमस्कारः सर्वपापप्रणाशनः । मङ्गलानां च सर्वेषां प्रथमं मङ्गलं मतः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy