________________
नवमोऽध्यायः।
६४३
स्थिरीभवन्ति चेतांसि प्राणायामावलम्बिनाम् । जगवृत्तं च निःशेषं प्रत्यक्षमिव जायते ॥ .. स्मरगरलमनोविजयं समस्तरोगक्षयं वपुःस्थैर्यम् । पवनप्रचारचतुरः करोति योगी न संदेहः ।। अपि चदोयक्खभुआ दिट्टी अंतमुही सिवसरूवसंलीणा । मणपवणक्खविहूणा सहजावत्था स णायव्वा ॥ जत्थ गया सा दिट्टी तत्थ मणं तत्थ संठियं पवणं । मणपवणलए सुण्णं तहिं च जं फुरइ तं ब्रह्म ॥ एतत्फलमाह-नवेत्यादि । सुधीरन्तर्निहितदृष्टिः संयमी दहति भस्मीकरोति । किं तत् ? अहः पापम् । कीदृशम् ? महद् बृहत् । चिरसंचितमित्यर्थः । किंविशिष्टः सन् ? एवमनेन प्रकारेण । प्रयोक्ता प्राणायामस्यकर्ता । कथम् ? नवकृत्त्वो नववारान् ।
अशक्तान् प्रत्युपांशु वाचनिकं पञ्चनमस्कारजपमनुज्ञाय तस मानसिकस्य पुण्यप्रसूतावऽन्तरमभिधत्तेवाचाप्युपांशु व्युत्सर्गे कार्यों जप्यः स वाचिकः । पुण्यं शतगुणं चैत्तः सहस्रगुणमावहेत् ॥ २४ ॥ कार्यः कर्तव्यो यथोक्तप्राणायामासमर्थैः साधुभिः । कोसौ ? जप्यः सर्वैनसामपध्वंसी पञ्चनमस्कारजप इत्यर्थः । कया ? वाचापि । अपि शब्दोऽशक्तान् प्रत्यनुज्ञां द्योतयति । कथं कृत्वा ? उपांशु यथान्यो न शृणोति । स्वसमक्षमेवेत्यर्थः । क ? व्युत्सर्ग कायोत्सर्गे । चैत्तवाचिकयो - पयोः फलविशेषमाह-स इत्यादि । आवहेत् कुर्यात् । कोसौ ? स वाचिको जप्यः । किं तत् ? पुण्यम् । किंविशिष्टम् । शतगुणं दण्डकोच्चारणादेः सकाशाच्छतेन गुणितम् । तथा चैत्तश्च मानसो जप्य आवहेत्पुण्यम् । किंविशिष्टम् ? सहस्त्रगुणम् । यथाह
वचसा वा मनसा वा कार्यों जप्यः समाहितस्वान्तः।. शतगुणमाद्ये पुण्यं सहस्रगुणितं द्वितीये तु ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org