________________
६४२
अनगारधर्मामृते
महदादिम् । क ? आत्मनि विश्वरूपे स्वचिद्रूपे । कया ? श्रुतदृष्ट्या परमागमचक्षुषा ॥ श्लोकद्वयेन व्युत्सर्गे ध्यानविधिमुपदिशतिजिनेन्द्रमुद्रया गाथां ध्यायेत् प्रीतिविकखरे । हृत्पङ्कजे प्रवेश्यान्तनिरुध्य मनसानिलम् ॥ २२ ॥ पृथग द्विद्येकगाथांशचिन्तान्ते रेचयेच्छनैः । नवकृत्वः प्रयोक्तैवं दहत्यंहः सुधीर्महत् ॥ २३ ॥ युग्मम् । कायोत्सर्गे ध्यायेञ्चिन्तयेत्साधुः । काम् ? गाथां “णमो अरहंताणं" इत्यादिकाम् । कया ? जिनेन्द्रमुद्रया प्रागुक्तलक्षणया । किं कृत्वा ? निरुध्य संयम्य । कम् ? अनिलं प्राणवायुम् । कथम् ? सह । केन ? मनसा चित्तेन । करणे सहार्थे वा तृतीया। किं कृत्वा ? प्रवेश्य । कम् ? मनसा सहानिलम् । क ? अन्तर्मध्ये । कस्मिन् ? हृत्पङ्कजे हृदयारविन्दे। किंविशिष्टे ? प्रीतिविकस्वरे आनन्देन विकसनशीले। तथा रेचयेतहिनि:सारयेदनिलं साधुः । कथम् ? शनैर्मन्दं मन्दम् । क ? द्विद्धयेकगाथांशचिन्तान्ते । कथम् ? पृथक् पृथक्त्वेन । गाथाया अंशा भागा गाथांशाः । द्वौ च द्वौ चैकश्च द्विद्ध्येकाः । ते च ते गाथांशाश्च द्विद्ध्येकगाथांशाः तेषां चिन्ता द्विद्ध्येकगाथांशचिन्ता। तस्या अन्ते प्रान्ते द्विगाथांशचिन्तान्ते पुनर्द्विगाथांशचिन्तान्ते, एकगाथांशचिन्तान्ते चेत्यर्थः । तथा हि-गाथाया द्वावंशो "णमो अरहताणं णमो सिद्धाणं" इति । पुनद्वौं “णमो आइरियाणं णमो उवज्झायाणं" इति। एकस्त्वंशो "णमो लोए सव्वसाहणं" इति । गाथा च मात्रावर्णविशिष्टं छन्दः, "शेष गाथा त्रिभिः पद्भिश्चरणैश्वोपलक्षिता" इत्यभि. धानात् । यथाह
शनैः शनैर्मनोऽजस्त्रं वितन्द्रः सह वायुना । प्रवेश्य हृदयाम्भोजकर्णिकायां नियन्त्रयेत् ॥ विकल्पा न प्रसूयन्ते विषयाशा निवर्तते । अन्तः स्फुरति विज्ञानं तत्र चित्ते स्थिरीकृते ॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org