________________
नवमोऽध्यायः।
कृत्य ननं विधाय । कम् ? विग्रहं शरीरम् । किं कृत्वा ? उत्थाय उद्भी. भूय । किं कृत्वा ? विज्ञाप्य । काम् ? क्रियां प्रकृताम् । वन्दनां ज्ञापयित्वेत्यर्थः । कथंभूतो भूत्वा ? आत्तसाम्यः "खमामि सव्वजीवाणं" इत्यादिसूत्रोच्चारणेन प्रतिपन्नसामायिकः । किं कृत्वा? उक्त्वा पठित्वा । किं तत् ? अग्रमङ्गलं मुख्यमङ्गलं जिनेन्द्रगुणस्तोत्रं "सिद्धं संपूर्णभव्यार्थम्" इत्यादि रूपम् । किंविशिष्टः सन् ? पर्यङ्कस्थः पर्यङ्कासनेन तिष्ठन् । किं कृत्वा ? आश्रित्य । किं तत् ? कृत्यम् । कस्याग्रे ? गुरोर्धर्माचार्यस्य । तद्दूरे देवस्याग्रे देववन्दनां प्रतिक्रमणादिकं वा कृत्यमाश्रित्य नमोस्तु देववन्दनां करिष्यामीत्यादिरूपेणाङ्गीकृत्य । किं कृत्वा ? नत्वा प्रणम्य गुरुम् । कथं कृत्वा ? आनम्रकांघ्रिदोः समन्तात्साधुत्वेन नमन्मस्तकपादहस्तम् । कं च मस्तकमडी च पादौ दोषौ च हस्तौ कांघ्रिदोरिति समाहारद्वन्द्वः। आननं कांघ्रिदोर्यत्र नमनकर्मणि तदानम्रकांघ्रिदोः । क्रियाविशेषणमेतत् । अथवा आननं कांघ्रिदोर्यस्य सआनम्रकाघ्रिदोः क्रियाकारी। किं कृत्वा? आलोच्य " इच्छामि " इत्यादिदण्डकेन निन्दागर्दीरूपामालोचनां कृत्वा । किं कृत्वा? कृत्वा । काम् ? ईर्यापथसंशुद्धिमैर्यापथिकदोषविशुद्धिम् । " पडिकमामि " इत्यादिदण्डकेन विधायेत्यर्थः । किं कुर्वन् ? पठन् । किं तत् ? दर्शनस्तोत्रं दर्शने भगवदवलोकनविषये दर्शनाय वा सम्यक्त्वाय दर्शनवद्वा सामान्यविषयत्वात् स्तोत्रं स्तवनं " दृष्टं जिनेन्द्रभवनम्" इत्यादि सामान्यस्तवनजातं दर्शनस्तोत्रम् । कया ? वन्दनामुद्रया प्रागुक्तलक्षणया। किं कृत्वा ? परीत्य प्रदक्षिणीकृत्य । कम् ? जिनालयम् । कथम् ? त्रिस्त्रीन् वारान् । किं विशिष्टः सन् ? आनतश्चैत्याय प्रणतः । कथम् ? त्रिः । पुनः किंविशिष्टः ? चैत्यालोकोद्यदानन्दगलद्वाष्पः । चैत्यस्यालोको दर्शनं चैत्यालोकः । तेनोद्यन्नुद्गच्छन्नानन्दः प्रमोदश्चैत्यालोकोद्यदानन्दः । तेन गलन्ति स्रवन्ति बाष्पाण्यश्रूणि यस्य स एवम् । किं कृत्वा ? प्रविश्य । कम् ? तं जिनालयम् । कया ? निसहीगिरा निसहीकेति शब्दोच्चारणेन । कथंभूतो भूत्वा ? कृतद्रव्यादिशुद्धिः । कृता द्रव्यक्षेत्रकालभावविशुद्धिर्येन स एवम् । किं कृत्वा ? गत्वा । कम् ? जिनालयम् । किं कुर्वन् ? पश्यन्नवलोकयन् । किं तत् ? स्तुत्यं भावरूप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org