SearchBrowseAboutContactDonate
Page Preview
Page 645
Loading...
Download File
Download File
Page Text
________________ ६४० अनगारधर्मामृते परार्थश्चेत्स्वार्थादभिमततरो हन्त परवान्, परायत्तः प्रीतेः कथमिव रसं वेत्ति पुरुषः॥ किमत किं पुनः क्रमते अप्रतिहतं प्रवर्तते उत्सहते वा। क ? अस्मिन् प्रकृते सर्वज्ञाराधने । किंविशिष्टे ? अलौकिके लोकानामविदिते । अथ चतुर्दशभिः पचैर्देववन्दनादि क्रियाणां प्रयोगानुपूर्वीमुपदेष्टुकामः प्रथमं तावद्युत्सर्गान्तक्रमप्रकाशनाय पञ्चश्लोकीमाचष्टे श्रुतदृष्ट्यात्मनि स्तुत्यं पश्यन् गत्वा जिनालयम् । कृतद्रव्यादिशुद्धिस्तं प्रविश्य निसही गिरा ॥ १७ ॥ चैत्यालोकोद्यदानन्दगलद्वाष्पस्त्रिरानतः। परीत्य दर्शनस्तोत्रं वन्दनामुद्रया पठन् ।॥ १८ ॥ कृर्वेर्यापथसंशुद्धिमालोच्यानम्रकाशिदोः । नत्वाश्रित्य गुरोः कृत्यं पर्यस्थोग्रमङ्गलम् ॥ १९ ॥ उक्तात्तसाम्यो विज्ञाप्य क्रियामुत्थाय विग्रहम् । प्रहीकृत्य त्रिभ्रमैकशिरोविनतिपूर्वकम् ॥ २०॥ मुक्ताशुक्त्यङ्कितकरः पठित्वा साम्यदण्डकम् । कृत्वावर्तत्रयशिरोनती भूयस्तनुं त्यजेत् ॥ २१॥ पञ्चकम् । त्यजेदुत्सृजेद् निर्ममतया प्रतिपद्येत् साधुः । काम् ? तनुं शरीरम् । किं कृत्वा ? कृत्त्वा । के ? आवर्तत्रयशिरोनती । आवर्तत्रयं च शिरोनति. श्च ते । कथम् ? भूयः पुनः । साम्यदण्डकपाठान्तेपीत्यर्थः। किं कृत्वा ? पठित्वा । किम् ? साम्यदण्डकं णमो अरहंताणं' इत्यादि सामायिकदण्डकम् । कथं कृत्वा ? त्रिभ्रमैकशिरोविनतिपूर्वकम् । त्रयो भ्रमाः समा. हृतास्त्रिभ्रममावर्तत्रयम् । एका चासौ शिरोविनतिश्चैकशिरोविनतिः। त्रिभ्रमं चैकशिरोविनतिश्च त्रिभ्रमैकशिरोविनती । ते पूर्वे पूर्वकालभाविन्यौ यत्र पठनकर्मणि तदेवम् । किंविशिष्टः सन् ? मुक्ताशुक्त्यङ्कितकरः। मुक्ताशुक्त्या प्रागुक्तलक्षणयाङ्कितौ चिन्हितौ करौ हस्तौ येन स एवम् । किं कृत्वा ! प्रह्वी Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy