________________
नवमोऽध्यायः ।
६३९
? स्मृत्वा आध्याय । काम् ? तदाकृतिमर्हन्मूर्तिम् ।
किं कृत्वा तल्लक्षणं यथा तथा
शुद्धस्फटिकसंकाशं तेजोमूर्तिमयं वपुः । जायते क्षीणदोषस्य सप्तधातुविवर्जितम् ॥
कथम् ? अरं झटिति । अर्हत्प्रतिमादर्शनानन्तरमेव स्मृत्वेत्यर्थः । किं कृत्वा ? दृष्ट्वा निरीक्ष्य | काम् ? अर्हत्प्रतिमां जिनेन्द्र चैत्यम् । तथा प्रथयति पृथूकरोति वन्दारुः । कम् ? तत्पाकं तस्य पुण्यस्योदयम् । तथा वन्दारुरघं पापं क्रशयते कृषीकरोति । कस्मात् ? पाकात् पाकमाश्रित्य | पापपाकमल्पी करोतीत्यर्थः । 'नीतश्चाघ निदाघजः क्लमभरः शान्तिम्' इत्यभिधानात् । तथा वन्दारुरघं रुणद्धि निवारयति । किं कुर्वन् ? अस्त्रवत् पापं संवृणोतीत्यर्थः । यत एवं चत्वारि चैत्यवन्दना फलानि प्रसिद्धानि तत् तस्मात्कारणात् स्तुयाद् वन्दतां मुमुक्षुः । कानि ? चैत्यानि किंविशिष्टानि ? अखिलानि कृत्रिमाकृत्रिमाणि । केषाम् ? कल्मषमुषां घातिचतुष्टयलक्षणं स्वपापभयहृतवतां वन्दारुभव्यजनानां वा दुष्कृत मपहरताम् । कल्मषं मुष्णन्तीति कल्मषमुषः । कथं स्तुयात् ? नित्यं त्रिसन्ध्यम् । कया ? त्रिशुद्ध्या मनोवाक्कायनिष्कलङ्कतया ।
स्वाधीनतेत्यस्यार्थं व्यतिरेकमुखेन समर्थयते
नित्यं नारकवद्दीनः पराधीनस्तदेष न । क्रमते लौकिकेप्यर्थे किमङ्गास्मिन्नलौकिके ॥ १६ ॥
भवति । कोसौ ? पराधीनः परायत्तः पुमान् । किंविशिष्टः ? दीनः । कथम् ? नित्यं संततम् | दुस्थित इत्यर्थः । किंवत् ? नारकवन्नैरयिकोयथा । उक्तं च- -'को नरकः परवशता' इति । यत एवं तत् तस्मादेष पराधीनः । पुमान् न क्रमते नाप्रतिहतं प्रवर्तते उत्सहते वा । क्व ? अर्थ प्रयोजने । किंविशिष्टे ? लौकिकेपि लोकविदिते स्नानभोजनादौ । यल्लोके - परार्थानुष्ठाने लथयति नृपं स्वार्थपरता, परित्यक्तस्वार्थो नियतमयथार्थः क्षितिपतिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org