________________
६३८
अनगारधर्मामृते
इष्टं पूर्वाचायः । किं तत् ? कृतिकर्म । कतिधा ? षोढा षट्प्रकारम् । कथम् ? एवमऽनेन स्वाधीनतादिप्रकारेण तावत्कृतिकर्मणः प्रकारः स्यात् । किमात्मकः ? स्वाधीनता वन्दारोः स्वातन्त्र्यम् । तथा परीतिः प्रदक्षिणा कृतिकर्मप्रकारः स्यात् । किंविशिष्टा ? त्रयी व्यवयवा । प्रदक्षिणास्तिस्त्र इत्यर्थः। तथा निषद्या कृतिकर्मप्रकारः स्यात् । किंविशिष्टा ? त्रयी आवृत्त्या त्रीण्युपवेशनानि क्रियाविज्ञापनचैत्यभक्तिपञ्चगुरुभक्त्यनन्तरालोचनाविषयाणि । तथा त्रिवारं कृतिकर्मप्रकारः स्यात् चैत्यपञ्चगुरुसमाधिभक्तिषु त्रिः कायोत्सर्गविधानात् । तथाऽऽवर्ता द्वादश कृतिकर्मप्रकारः स्यात् । तथा चत्वारि शिरांसि मूर्धावनतयो वन्दना प्रधानभूता वाह सिद्धसाधुधर्माः कृतिकर्मप्रकारः स्यात् । उक्तं च सिद्धान्तसूत्रे
"आदाहीणं पदाहीणं तिक्खुत्तं तिऊणदं ।
चदुस्सिरं वारसावत्तं चेदि”। जिनचैत्यवन्दनायाः प्रचुरपुण्यास्रवणपूर्वपुण्योदयस्फारीकरणप्राक्तनपापविपाकापकर्षणापूर्वपातकसंवरणलक्षणां फलचतुष्टयी प्रतिपाद्य सर्वदा तत्र त्रिसन्ध्यं मुमुक्षुवर्गमुद्यमयन्नाह
दृष्ट्रार्हत्प्रतिमां तदाकृतिमरं स्मृत्वा स्मरंस्तद्गुणान्, रागोच्छेदपुरःसरानतिरसात् पुण्यं चिनोत्युच्चकैः । तत्पाकं प्रथयत्यघं क्रशयते पाकाद्रुणद्ध्यास्रवत्, तचैत्यान्यखिलानि कल्मषमुषां नित्यं त्रिशुद्ध्या स्तुयात् ॥ चिनोति बध्नाति वन्दारुः । किं तत् ? पुण्यं सद्वेद्यशुभायुर्नामगोत्र. लक्षणं सुकृतम् । कथम् ? उच्चकैरत्यर्थम् । किं कुर्वन् ? स्मरन् स्मृतिगोचरीकुर्वन् । कान् ? तहणान् तस्याहनहारकस्य गुणान् । किंविशिष्टान् ? रागोच्छेदपुरस्सरान् । रागोच्छेदो वीतरागत्वं पुरस्सरः प्रमुखो येषां सर्वज्ञत्वसर्वदर्शिवादीनां ते रागोच्छेदपुरस्सरास्तान् । कस्मात्तान् सरन् ? अतिरसादऽनुरागोद्रेकात् । उक्तं च
"वपुरेव तवाचष्टे भगवन् वीतरागताम् । न हि कोटरसंस्थेऽग्नौ तरुर्भवति शावलः॥" इत्यादि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org