________________
नवमोऽध्यायः।
त्रिसन्ध्यं वन्दने युंज्याच्चैत्यपञ्चगुरुस्तुती । प्रियभक्तिं बृहद्भक्तिष्वन्ते दोषविशुद्धये ॥१३॥
युंज्याद् योजयेद्वन्दारुः । के ? चैत्यपञ्चगुरुस्तुती चैत्यवन्दनां पञ्चगुरुवन्दनां चेत्यर्थः । क? वन्दने जिनदेववन्दनायाम् । कथम् ? त्रिसन्ध्यं सन्ध्यात्येपि । तथा युंज्यात् । काम् ? प्रियभक्तिं समाधिभक्तिम् । क्व ? अन्ते वन्दनापर्यन्ते । कासु ? बृहद्भक्तिषु । बृहत्यो भक्त्युच्छ्वासदण्डकपाठबहुत्वान्महत्यो भक्तयो बृहद्भक्तयस्तासु । कस्यै ? दोषविशुद्धये । दोषा वंदनातीचारा रागादयो वा। तेषां विशुद्धिय॑पोहो दोषविशुद्धिस्तस्यै । उक्तं च
"ऊनाधिक्यविशुद्ध्यर्थं सर्वत्र प्रियभक्तिकाः।" यत्पुनवृद्धपरम्पराव्यवहारोपलम्भात् सिद्धचैत्यपञ्चगुरुशान्तिभक्तिभिर्यथावसरं भगवन्तं वन्दमानाः सुविहिताचारा अपि दृश्यन्ते तत्केवलं भक्तिपिशाचिदर्ललितमिव मन्यामहे सूत्रातिवर्तनात् । सूत्रे हि पूजाभिषेकमङ्गल एव तच्चतुष्टयमिष्टम् । तथा चोक्तं
चैत्यपञ्चगुरुस्तुत्या नित्या सन्ध्यासु वन्दना । सिद्धभक्त्यादिशान्त्यन्ता पूजाभिषवमङ्गले॥ अपि च
जिणदेववंदणाए चेदियभत्तीय पंचगुरुभत्ती। तथा
अहिसेयवंदणासिद्धचेदियपंचगुरुसंतिभत्तीहिं ॥ कृतिकर्मणः षड्भिधत्वमन्वाचष्टेस्वाधीनता परीतिस्त्रयी निषद्या त्रिवारमावर्ताः। द्वादश चत्वारि शिरांस्येवं कृतिकर्म पोढेष्टम् ॥ १४ ॥
१-जिनदेववन्दनायां चैत्यभक्तिश्च पञ्चगुरुभक्तिः । २-अभिषकवन्दना सिद्धचत्यपञ्चगुरुशान्तिभक्तिभिः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org