________________
अनगारधर्मामृते
संवेध इत्यर्थः । परमेत्यादि । परमा प्रकर्षप्राप्ता विशदा अव्यवधानेन विशेपवत्तया वा प्रतिभासमाना दृक् परमविशददृक् केवलज्ञानम् । तत्र विश्वस्य लोकालोकस्य रूपाण्याकारा यस्यासौ परमविशदग्विश्वरूपः। तच तस्पुनर्योगिध्यानं भवति । कीदृशम् । साध्यं निर्वर्तयितुं शक्यम् । केन ! स्वांतस्थेनैव मनःस्थैर्येणैव, न मनश्चपलत्वेन । स्थिरस्य भावः स्थेमा । स्वान्तस्य स्थेमा स्वान्तस्थेमा । तेन स्वान्तस्थेन्ना। यथाह
ध्यानस्य च पुनर्मुख्यो हेतुरेतच्चतुष्टयम् ।
गुरूपदेशः श्रद्धानं सदाभ्यासः स्थिरं मनः॥ अपि च
अविक्षिप्तं मनस्तत्त्वं विक्षिप्तं भ्रान्तिरात्मनः। धारयेत्तदविक्षिप्तं विक्षिप्तं नाश्रयेत्पुनः ॥ यत एवं तत् तस्मात्कारणादऽमलमतयोऽकलुषबुद्धयः साधव आसूत्रयन्तु रचयन्तु । किं तत् ? तत्पूजाकर्म जिनेन्द्रवन्दनाम् । तस्य जिनेन्द्रस्य परमात्मापराभिधानस्य पूजाकर्म विनयक्रिया तत्पूजाकर्म । कथम् ? यथासूत्रं परमागमानतिक्रमेण । कथं कृत्वा ? कर्मच्छिदुरमिति कर्मणां ज्ञानावरणादीनां मनोवाक्कायक्रियाणां वा छिद्रं छेदनशीलमेकदेशेन तदपनेतृत्वादिति हेतोः । किंविशिष्टम् ? तदनवधिगुणग्रामगाढानुरागम् । तस्य जिनेन्द्रस्यानवधयोऽनन्ता गुणा ज्ञानादयस्तदनवधिगुणाः । तेषां ग्रामः संघातः । तत्र गाढो दृढोनुरागो भक्तिः श्रद्धानं यत्र तत्पूजाकर्मणि तत्तथोक्तम् । एतेन भावपूजां लक्षयति । तथा चोक्तम्
व्यापकानां विशुद्धानां जैनानामनुरागतः।
गुणानां यदनुध्यानं भावपूजेयमुच्यते ॥ किं कर्तुम् ? विधातुं विधास्यामीति कर्तुम् । किं तत् ? चित्तस्थैर्यम् । कीदृशम् ? तत्पथध्यानबीजं परमात्मप्राप्त्युपायभूतधर्म्यशुक्ललक्षणप्रणि. धानकारणभूतम् । तस्य परमात्मनः पन्थाः प्राप्त्युपायस्तत्पथः । तत्पथश्च स ध्यानं च तत् तत्पथध्यानम् । तस्य बीजं कारणम् ॥ त्रैकालिकदेववन्दनायाः प्रयोगविधिमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org