________________
नवमोऽध्यायः।
प्रतिक्रामेद्विशोधयेत् साधुः । कम् ? मलमतीचारम् । कया ! भत्तया वन्दनया । केषाम् ? सिद्धप्रतिक्रान्तिवीरद्विद्वादशाहताम् । द्वौ द्वादश द्विद्वादशाः । चतुर्विशतिरित्यर्थः। 'संख्याबाङ्लोऽबहुगणात्' इति साधुः। द्विद्वादशाश्च तेऽर्हन्तश्च द्विद्वादशाहन्तः । सिद्धाश्च प्रतिक्रान्तिश्च वीरश्च द्विद्वादशाहन्तश्चेति द्वन्द्वः । सिद्धभक्त्या प्रतिक्रमणभक्त्या वीरभक्त्या चतुर्विशतितीर्थकरभक्त्या चेत्यर्थः । तथा भजेत् सेवेत प्रतिष्ठापयेत्साधुः। कम् ? योगम् अद्य रानावत्र वसत्यां स्थातव्यमिति नियमविशेषम् । कया। योगिभक्त्या त्यजेश्च निष्ठापयेत् । योगं योगिभक्त्यैव । उक्तं च
सिद्धनिषेधिकावीरजिनभक्तिः प्रतिक्रमे।
योगिभक्तिः पुनः कार्या योगग्रहणमोक्षयोः॥ साधून प्रभातिकदेववन्दनां प्रति प्रोत्साहयनाहयोगिध्यानैकगम्यः परमविशदग्विश्वरूपः स तच्च, स्वान्तस्थेनैव साध्यं तदमलमतयस्तत्पथध्यानबीजम् । चित्तस्थैर्य विधातुं तदनवधिगुणग्रामगाढानुराग, तत्पूजाकर्म कर्मच्छिदुरमिति यथासूत्रमासूत्रयन्तु ॥१२॥
"केवलणाणदिवायरकिरणकलावप्पणासियण्णाणो। णवकेवललद्धग्गमसुजणियपरमप्पववएसो॥ असहायणाणदंसणसहिओ इदिकेवली हु जोगेण ।
जुत्तोत्ति सजोगिजिणो अणाइणिहणारिसे उत्तो॥" इत्येवंविधे परमागमे प्रसिद्धः परमविशदग्विश्वरूपो भवति । कीदृशः ! योगिध्यानैकगम्यः । योगो यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधिलक्षणाष्टाङ्गरूप एषामस्तीति योगिनः । तेषां ध्यानं, ज्ञानमेव स्थिरीभूतं ध्यानमित्युच्यते बुधैरित्येवंलक्षणं, योगिध्यानम् । योगिध्यानेनैकेनोत्कृष्टेन, ध्यानमेव स्थिरीभूतं समाधिरिति कथ्यते, इत्येवंलक्षणेन गम्यते उपलभ्यत इति योगिध्यानैकगम्यः । एकत्ववितर्का वीचारशुकध्यान
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org