SearchBrowseAboutContactDonate
Page Preview
Page 639
Loading...
Download File
Download File
Page Text
________________ ६३४ अनगारधर्मामृते- । प्रमादा नश्यति प्रलीयते । कासौ ? दोषवाहिनी अतीचारचमूः । कीदृशी ? दुर्निवारप्रमादारिप्रयुक्ता । प्रमादाः कुशलेष्वनुत्साहाः एवारयः शत्रवः स्वार्थभ्रंशहेतुत्वात् । दुर्निवारा निवारयितुमशक्याः प्रमादारयो दुर्निवारप्रमादारयः । तैः प्रयुक्ता प्रेरिता । कस्मात् ? प्रतिक्रमदिव्यास्त्रप्रयोगात् । प्रतिक्रमणं कृतदोषनिराकरणम् । तदेव दिव्यास्त्रं देवोपनीतमायुधं प्रतिक्रमणदिव्यास्त्रम् । तस्य प्रयोगो विधिवद्विधानं तस्मात् । कथं नश्यति ? आशु शीघ्रम् । उक्तं च जीवे प्रमादजनिताः प्रचुराः प्रदोषा, यस्मात्प्रतिक्रमणतः प्रलयं प्रयान्ति । तस्मात्तदर्थममलं मुनिबोधनार्थ, वक्ष्ये विचित्रभवकर्मविशोधनार्थम् ॥ प्रमादस्य महिमानमुदाहरणद्वारेण स्पष्टयतित्र्यहादऽवैयाकरणः किलैकाहादकार्मुकी । क्षणादयोगी भवति स्वभ्यासोपि प्रमादतः ॥ १० ॥ किल लोके ह्येवं श्रूयते । भवति । कोसौ ? अवैयाकरणः | व्याकरणं वेत्यधी वा वैयाकरणः न वैयाकरणोऽवैयाकरणः । कस्मात् ? त्र्यहात् व्यहमन्तरीकृत्य । दिननयादूध्वं चतुर्थेन्हीत्यर्थः । कस्मात् ? प्रमादतोऽनवधानात् । किंविशिष्टोपि ? स्वभ्यासोपि सुष्ट्वभ्यासो योग्या यस्यासौ स्वभ्यासः । किं पुनर्मन्दाभ्यास इत्यपि शब्दार्थः । तथा स्वभ्यासोपि प्रमादतोऽकार्मुकी अधानुष्को भवति । कस्मात् ? एकाहादेकाहमन्तरीकृत्य । एकदिनादूर्ध्वं द्वितीयेह्नीत्यर्थः । तथा स्वभ्यासोपि प्रमादतोयोगी समाधिच्युतो भवति । कस्मात् ? क्षणात् क्षणमन्तरीकृत्य । क्षणमात्रादूर्ध्वं द्वितीये क्षणे इत्यर्थः । प्रतिक्रमणाया रात्रियोग प्रतिष्ठापन निष्ठापनयोश्च प्रयोगविधिमभिधत्ते--- भक्त्या सिद्धप्रतिक्रान्तिवीरद्विद्वादशार्हताम् । प्रतिक्रामेन्मलं योगं योगिभच्या भजेत् त्यजेत् ॥ ११ ॥ www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy