SearchBrowseAboutContactDonate
Page Preview
Page 638
Loading...
Download File
Download File
Page Text
________________ नवमोऽध्यायः। ६३३ यमनियमनितान्तः शान्तबाह्यान्तरात्मा, परिणमितसमाधिः सर्वसत्त्वानुकम्पी। विहितहितमिताशी क्लेशजालं समूलं, दहति निहतनिद्रो निश्चिताध्यात्मसारः॥ तथा श्रीमद्रामसेनपूज्यैरप्यवाचि स्वाध्यायाद् ध्यानमध्यास्ते ध्यानात्स्वाध्यायमामनेत् । ध्यानस्वाध्यायसंपत्त्या परमात्मा प्रकाशते ॥ एतदेव च स्वयमप्यन्वाख्यं सिद्ध्यकमहाकाव्ये, यथा-- परमसमयसाराभ्याससानन्दसर्पसहजमहसि सायं स्वे स्वयं स्वं विदित्वा । पुनरुदयदविद्यावैभवाःप्राणचारस्फुरदरुणविजृम्भा योगिनो यं स्तुवन्ति ॥ परमागमव्याख्यानाडुपयोगस्य लोकोत्तरमाहात्म्यमुपवर्णयतिखेदसंज्वरसंमोहविक्षेपाः केन चेतसः। क्षिप्येरन् मच जैनी चेन्नोपयुज्येत गी:सुधा ॥८॥ केन क्षिप्येरन् ? न केनापि निराक्रियेरनित्यर्थः । के ? खेदसंज्वरसंमोहविक्षेपाः । कस्य ? चेतसः । खेदो दैन्यम् । संज्वरः संतापः । संमोहोऽज्ञानम् । विक्षेपो व्याकुलत्वम् ।' खेदश्च संज्वरश्च संमोहश्च विक्षे. पश्च खेदसंज्वरसंमोह विक्षेपाः। चेद्यदि नोपयुज्येत न भाव्येत । कासौ ? गीःसुधा वागमृतम् किंविशिष्टा ? जैनी आहती । कथम् ? मइक्षु सद्यः खेदाद्यनन्तरमेव । बाह्या अप्याहुः क्लान्तमपोज्झति खेदं तप्तं निर्वाति बुध्यते मूढम् । स्थिरतामेति व्याकुलमुपयुक्तसुभाषितं चेतः॥ प्रतिक्रमणमाहात्म्यमनुसंधत्तेदुर्निवारप्रमादारिप्रयुक्ता दोषवाहिनी। प्रतिक्रमणदिव्यास्त्रप्रयोगादाशु नश्यति ॥९॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy