________________
अनगारधर्मामृते
परिच्छित्तिश्चात्मशुद्धिः। तथा मित्रस्य भावो मैत्री दुःखानुत्पत्यभिलाषः । तस्य द्योतो द्योतनं बुधचेतसि माहात्म्यप्रकाशनं मैत्रीद्योतः । च समुच्चये। तथा च पूर्वभाषितम्
जेण तच्चं विवुज्झेज जेण चित्तं णिरुज्झदि । जेण अत्ता विसुज्झेज तं णाणं जिणसासणे ॥ जेण रागा विरज्जेज जेण सेएसु रज्जदि ।
जेण मित्तिं पभावेज तं णाणं जिणसासणे ॥ अत्र पूर्वसूत्रेण सम्यक्त्वसहचारि ज्ञानमुत्तरसूत्रेण च चारित्रसहचारि ज्ञानं सूत्रकारेणोपवर्णितमुन्नेयम् ।
साधोरपररात्रे स्वाध्यायप्रतिष्ठापननिष्ठापने प्रतिक्रमणविधानं रात्रियोगनिछापनं च यथाक्रममवश्यकर्तव्यतयोपदिशतिक्लमं नियम्य क्षणयोगनिद्रया लातं निशीथे घटिकाद्वयाधिके। खाध्यायमत्यस्य निशाद्विनाडिकाशेषेप्रतिक्रम्य च योगमुत्सृजेत्
उत्सृजेत् त्यजेत् । निष्ठापयेत्साधुरित्यर्थः । कम् ? योगं रात्रौ गृहीतं शुद्धोपयोगम् । किं कृत्वा ? प्रतिक्रम्य कृतदोषविशोधनां कृत्वा । चः समुच्चये । किं कृत्वा ? अत्यस्य निष्ठाप्य । कम् ? स्वाध्यायम् । क? निशाद्विनाडिकाशेषे । निशाया रात्रेहूँ नाडिके घटिके निशाद्विनाडिके । तयोः शेष उद्वरितत्वं निशाद्विनाडिकाशेषस्तस्मिन् । राज्यवसानतृतीयघटिकायां प्रवर्तमानायामित्यर्थः। किंविशिष्टं स्वाध्यायम् ? लातं गृहीतं प्रतिष्ठापितम् । क ? निशीथेऽर्धरात्रे । किंविशिष्टे ? घटिकाद्वयाधिके नाडिकायुग्मातिरिक्ते । अर्धरात्रतृतीयघटिकायां प्रवर्तमानायामित्यर्थः । किं कृत्वा ? नियम्य निवर्त्य । कम् ? क्लमं शरीरग्लानिम् । कया ? क्षणयोगनिद्रया। योगः शुद्धचिद्रूपे यथाशक्ति चिन्तानिरोधः । योगो निद्रेव, इन्द्रियात्ममनो. मरुत्सूक्ष्मावस्थारूपत्वात्, "इन्द्रियात्ममनोमस्तां सूक्ष्मावस्था स्वापः" इत्यभिधानात् । योगश्चासौ निद्रा च योगनिद्रा । क्षणोन कालाल्पत्वम् । तच्चोस्कर्षतो घटिकाचतुष्टयमस्वाध्याययोग्यम् । क्षणभाविनी योगनिद्रा क्षणयोगनिद्रा तया । यदाहुः श्रीमद्गुणभद्रदेवपादाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org